अधिकारिणां स्थानान्तरणाय सर्वकारेण न्यूनतम-कार्यकालः निर्धारणीयः – उच्च-न्यायालयः
हिमसंस्कृतवार्ता — शिमला।
प्रदेश-उच्च-न्यायालयेन सर्वकारीय-अधिकारिणां पुनः-पुनः क्रियमाणेषु स्थानान्तरणेषु एकः बृहत्-निर्णयः श्रावितः। न्यायालयेन स्पष्टीकृतं यत् कोऽपि अधिकारी ‘प्रथम-श्रेण्याः’ (Class-1) अस्ति इत्यस्य अयम् अर्थः नास्ति यत् विभागः तस्य निरन्तरम् अकारणं च स्थानान्तरणं कुर्यात्। उच्च-न्यायालयेन राज्य-सर्वकाराय परामर्शः दत्तः यत् सः प्रथम-श्रेण्याः अधिकारिणां कृते अपि एकं न्यूनतमं कार्यकालं निर्धारयेत्, येन तेषां स्थानान्तरणेषु निष्पक्षता सुरक्षिता भवेत्। न्यायाधीशेन अजयमोहनगोयल-महोदयेन बबनेशचड्ढा-नाम्ना जनैः प्रवेशिताया: ‘सिविल रिट’-याचिकायाः श्रवणं कुर्वता अयम् महत्त्वपूर्णः आदेशः कृतः, याचिकाकर्त्तुः स्थानान्तरण-आदेशश्च निरस्तीकृतः।
याचिकाकर्त्ता बबनेशचड्ढा मण्डी-मण्डलस्य ‘बालीचौकी’-विकास-खण्डे कार्यरतः आसीत्। विभागेन १ जुलै २०२६ दिनाङ्के एकम् आदेशं प्रसार्य तस्य स्थानान्तरणं ततः कृतम् आसीत्। अस्मिन् आदेशे सति तेन न्यायालयस्य शरणं गृहीतम्। न्यायालयस्य ज्ञाने एषा वार्ता समायाता यत् याचिकाकर्तुः बालीचौकी-स्थाने सेवां ददत मात्रम् एकं वर्षम् एकादश (११) मासाः एव व्यतीताः आसन्। अस्मात् पूर्वम् अपि सः ०१.०७.२०२० तः १६.०९.२०२१ पर्यन्तं करसोग-मण्डी-क्षेत्रे, ततः ०६.०९.२०२१ तः ०६.०४.२०२३ पर्यन्तम् आनी-कुल्लू-क्षेत्रे निरन्तरं न्यून-समये स्थानान्तरणस्य कष्टं सोढवान् आसीत्। न्यायालयेन अङ्गीकृतं यत् अधिकारिणे तस्य वर्त्तमान-नियुक्ति-स्थाने एकं सम्मानजनकम् उचितं च कार्यकालं यापयितुम् अनुमतिं विना स्थानान्तरणस्य कोऽपि तार्किकः आधारः नास्ति।
प्रथम-श्रेण्याः अधिकारिभ्यः अपि दिशानिर्देशाः निर्धारणीयाः
केवलं प्रथम-श्रेण्याः अधिकारी अस्ति इत्यनेन विभागाय पुनः-पुनः स्थानान्तरणस्य अधिकारः न प्राप्यते। ते अपि एकस्मिन् निश्चित-स्थाने निर्धारित-समयं यावत् कार्यं कर्तुम् अधिकृताः सन्ति। उच्च-न्यायालयेन राज्य-सर्वकारः उक्तः यत् सः प्रथम-श्रेण्याः अधिकारिणां कृते अपि न्यूनतम-कार्यकालं वस्तुनिष्ठ-दिशानिर्देशांश्च निर्धारयेत्। अनेन सहैव विभागाय आदेशः दत्तः यत् याचिकाकर्त्रे वर्त्तमान-स्थाने (बालीचौकी) न्यूनातिन्यूनं सार्ध-द्वि-तः त्रि-वर्ष-पर्यन्तं (२.५ तः ३ वर्षाणि) कार्यकालः पूर्णं कर्तुं दीयताम्। ततः परमेव विभागः प्रशासनिक-आवश्यकतानाम् आधारेण तस्य स्थानान्तरणं कर्तुं शक्ष्यति।
