रणवीरसिंहः ‘धुरन्धर’ इति चलच्चित्रस्य अनन्तरम् अनन्या-बिरलामहोदयया सह ‘ज़ॉम्बी’ इत्यस्मिन् चलच्चित्रे दर्शनं दास्यति। चलच्चित्रस्य चित्रोतलनं प्रारब्धम्
वार्ताहर: – जगदीश डाभी, मुम्बई
(हिमसंस्कृतवार्ता:) बॉलिवुड-चित्रजगतः अतिप्रसिद्धः अभिनेता रणवीरसिंहः अधुना एव ‘धुरन्धर’ तथा ‘धुरन्धर २’ इति चलच्चित्रयोः दृश्यते स्म। एते उभे अपि चलच्चित्रे पञ्चत्रिंशच्छतकोटि (३,००० कोटिः) रुप्यकाणाम् अतीव धनार्जनम् अकुरुताम्। ‘धुरन्धर’ इति चित्रस्य सफलतायाः अनन्तरम् रणवीरसिंहः बॉलिवुड-क्षेत्रस्य शीर्ष अभिनेतृषु गण्यते। सम्प्रति सर्वे तेन सह कार्यं कर्तुम् इच्छन्ति। अपरञ्च, रणवीरसिंहः स्वस्य अग्रिम-परियोजनायै अनन्या बिरलामहोदयया सह कार्यं कर्तुं निर्णयं कृतवान्।
‘धुरन्धर’ इति चित्रस्य सफलतायाः अनन्तरम् अधुना रणवीरसिंहः ‘प्रलय’ इति चित्रे द्रक्ष्यते। अस्य चलच्चित्रस्य निर्देशनम् जय मेहता महोदयः करोति। अस्मिन् ‘सुपरवुमन्’ चलच्चित्रस्य ‘लोका’ इति पात्रवती कल्याणी प्रियदर्शना अपि मुख्यभूमिकायां दृश्यिष्यते। कथ्यते यत् एतत् एकं ज़ॉम्बी-क्रिया-रोमाञ्चकं (action-thriller) चलच्चित्रम् अस्ति, यत् जगत्-विनाशस्य कथायाम् आधारितम् अस्ति। वार्तानुसारम्, अस्य चलच्चित्रस्य चित्रीकरणम् मुम्बय्यां प्रारब्धम्। रणवीरः चित्रीकरणे सम्मिलितः अभवत्।
‘प्रलय’ इति एकं बहुव्ययसाध्यं (big-budget) चलच्चित्रम् अस्ति। अस्य चित्रस्य कृते रणवीरसिंहः अनन्या बिरलामहोदयया सह सहयोगम् अकरोत्। अनन्या-बिरला महोदयायाः ‘बिरला स्टुडियोज’, हंसल-मेहता-साहिल-सहगलयोः ‘ट्रू स्टोरी फिल्म्स’, रणवीरसिंहस्य च स्वकीया निर्माणसंस्था ‘मां कसम फिल्म्स’ मिलित्वा अस्य बहुव्ययसाध्यस्य ज़ॉम्बी-चलच्चित्रस्य निर्माणं करिष्यन्ति।
#ranveersingh #parlay #AnanyaBirla
