*राष्ट्रियग्रन्थपालदिवसोत्सवस्य प्रतिवेदनम्*
दिनाङ्कः: १२ अगस्तमासः, २०२६
स्थानम्: सभाभवनम्, कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयः
आयोजकः: महामहोपाध्याय-धीरेश्वराचार्यग्रन्थालयः
१. प्रस्तावना
कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालये २०२६ तमस्य वर्षस्य अगस्तमासस्य १२ दिनाङ्के महता उत्साहेन आदरेण च राष्ट्रियग्रन्थपालदिवसः आचरितः। भारतस्य ग्रन्थालयविज्ञानस्य पितुः डॉ. एस. आर. रङ्गनाथनस्य १३४ तमजन्मजयन्तीं संस्मर्तुम् अयं दिवसः प्रतिवर्षं मान्यते। अयं समारोहः विश्वविद्यालयस्य सभाभवने अभवत्, भूयसा साफल्येन च सम्पन्नः।
२. उपस्थिताः मान्याः अतिथयः
अस्मिन् कार्यक्रमे विश्वविद्यालयस्य सर्वे उच्चाधिकारिणः उपस्थिताः आसन्। मञ्चे उपविष्टाः मान्याः अतिथयः यथा—
माननीयः कुलपतिमहोदयः प्रो प्रह्लाद रा जोशीवर्यः
माननीया उपकुलपतिमहोदया प्रो मल्लिका कलिता
माननीयः कुलसचिवमहोदयः डॉ मनोज कुमार शर्मा
माननीयः कोषाध्यक्षमहोदयः एस बरठाकुरः
माननीयः परीक्षानियन्त्रकमहोदयः डॉ प्रशान्त ज्योतिगौतम:
एतैः सह विद्यापीठस्य सङ्कायप्रमुखाः (Deans), वरिष्ठाः प्राध्यापकाः, अनुसन्धातारः, बहवः छात्राः च उपस्थिताः आसन्। तेषाम् उपस्थितिः डॉ. रङ्गनाथनस्य योगदानं प्रति विश्वविद्यालयस्य गौरवम्, शिक्षायां ग्रन्थालयस्य महत्त्वं च प्रादर्शयत्।
३. कार्यक्रमस्य सञ्चालनम्
कार्यक्रमस्य संयोजनं सञ्चालनं च विश्वविद्यालयस्य ग्रन्थपालेन डॉ. राजीवकुमारदासेन कृतम्। सः सर्वेषां मान्यानां मञ्चस्थानां चातिथीनां स्वागतं कृत्वा कार्यक्रमस्य प्रारम्भम् अकरोत्। ततः परम् एतस्य दिवसस्य आयोजनस्य औचित्यम् अधिकृत्य सः विचारगर्भितं भाषणम् प्रस्तुतवान्। सः डॉ. रङ्गनाथनस्य प्रसिद्धान् ‘ग्रन्थालयविज्ञानस्य पञ्चनियमान्’ प्रतिपाद्य अद्यतनयुगे अपि तेषां प्रासङ्गिकतां स्पष्टीकृतवान्।
तेन ‘कृत्रिमबुद्धेः (AI) युगे ग्रन्थालयकार्यकर्तॄणां परिवर्तमाना भूमिका’ इति विषयः अपि चर्चितः। सः अकथयत् यत् पूर्वं ग्रन्थपालाः केवलं पुस्तकानां रक्षकत्वेन, आयोजकत्वेन च दृश्यन्ते स्म। परन्तु अधुना कृत्रिमबुद्धेः नवप्रविधीनां च साहाय्येन ते सूचनाप्रबन्धकाः मार्गदर्शकाः च जाताः सन्ति। सः अवदत् यत् सूचनायाः शीघ्रान्वेषणे वर्गीकरणे च कृत्रिमबुद्धिः सहायिका भवितुं शक्यते, किन्तु पाठकानाम् आवश्यकतानां अवगमने सम्यक्पुस्तकचयने च मानवीयस्पर्शः सर्वदैव महत्त्वपूर्णः स्थास्यति। तस्य भाषणं बहुज्ञानप्रदं सर्वेषां कृते चिन्तनीयं च आसीत्।
४. अतिथीनां सम्भाषणानि
ग्रन्थपालस्य सम्भाषणानन्तरं मान्याः अतिथयः स्वकीयान् महत्त्वपूर्णान् विचारान् प्रास्तुवन्—
माननीयः कुलपति-महोदयः प्रेरणादायकं भाषणम् अयच्छत्। सः अस्माकं जीवने पुस्तकानां ग्रन्थालयानां च महत्त्वम् अवदत्। सः अकथयत् यत् ग्रन्थालयः विश्वविद्यालयस्य हृदयमिव भवति। दुर्लभ-संस्कृत-पाण्डुलिपीनां संरक्षणे तासां शोधार्थिभ्यः उपलब्धतायाः सम्पादने च ग्रन्थालयकर्मचारिणां परिश्रमस्य तेन भृशं प्रशंसा कृता। सः सर्वान् पठनवयस्य वर्धनाय ग्रन्थालयस्य सदुपयोगाय च प्रेरितवान्।
माननीया उपकुलपति-महोदया प्राचीनज्ञानस्य आधुनिकप्रविधिना सह संयोजनस्य आवश्यकताम् प्रतिपादितवती। प्राचीनग्रन्थानाम् अङ्कीकरणाय (digitisation) ग्रन्थालयस्य प्रयत्नान् सा अशंसत्।
माननीयः कुलसचिवः अपि स्वविचारान् प्राकटयत्। सर्वैः वक्तृभिः अध्यापने, अध्ययने, अनुसन्धाने च ग्रन्थालयस्य योगदानं रेखाङ्कितम्। ते ग्रन्थालयदलस्य निष्ठापूर्णसेवायै धन्यवादं विहितवन्तः।
सर्वाणि सम्भाषणानि अतीव ज्ञानवर्धकानि आसन्, प्रेक्षकांश्च ग्रन्थालयस्य तद्विषयाणां च आदरार्थं प्राेरयन्।
५. विशेषक्षणः – ग्रन्थालय-तन्त्रांशस्य (Software) उद्घाटनम्
कार्यक्रमस्य अतिशयः उत्साहजनकः भागः एकस्य नवीनतन्त्रांशस्य (Software) अनावरणम् आसीत्। ग्रन्थपालः डॉ. राजीवकुमारदासः स्वयमेव ग्रन्थालयस्य कृते “ग्रन्थालय-द्वार-प्रवेश-पञ्जिका-तन्त्रांशम्” (Library Gate Entry Register Software) विकसितवान् आसीत्। एषः तन्त्रांशः ग्रन्थालयान्तः गच्छतां आगच्छतां च जनानाम् अङ्कीय-अभिलेखात् (digital record) रक्षणार्थं निर्मितः।
माननीयः कुलपति-महोदयः सङ्गणकस्य (Laptop) गण्डं निपीड्य एतस्य तन्त्रांशस्य औपचारिकम् उद्घाटनम् अकरोत्। उपस्थितैः सर्वैः एषः प्रयासः श्लाघितः यतो हि एतेन ग्रन्थालयसेवासु सुधाराय ग्रन्थपालस्य तान्त्रिककौशलं दृश्यते। एषा नूतना प्रणाली आगन्तुकसंख्यायाः गणने, सुरक्षापालने, विवरणपत्रस्य (reports) निर्माणे च सुकरा भविष्यति। अस्माकं विश्वविद्यालयस्य कृते एषा गर्वस्य वार्ता यत् तादृशः तन्त्रांशः अस्माकं ग्रन्थपालेन स्वयमेव विकसितः।
६. धन्यवादार्पणं समापनञ्च
कार्यक्रमस्य समापनं धन्यवादार्पणेन अभवत्। ग्रन्थपालः सर्वेषां मान्यानां अतिथीनां, प्राध्यापकानां, शोधार्थिनां, छात्राणां च तेषाम् उपस्थित्यै सहयोगाय च कार्तज्ञ्यं प्राकटयत्। तेन कार्यक्रमस्य आयोजनाय ग्रन्थालयकर्मचारिणां परिश्रमः अपि धन्यवादैः स्मृतः।
एषः उत्सवः महता साफल्येन सम्पन्नः। डॉ. एस. आर. रङ्गनाथनस्य गौरवपूर्णस्मरणस्य ग्रन्थालयविज्ञानस्य उज्ज्वलभविष्यापेक्षणस्य च एषः सुन्दरः सङ्गमः आसीत्। एतेन कार्यक्रमेन सर्वे स्मारिताः यत् ग्रन्थालयाः केवलं पुस्तकमयानि भवनानि न सन्ति, अपि तु ते ज्ञानस्य, अध्ययनस्य, नवोन्मेषस्य च साक्षात्स्थानानि सन्ति।
