संस्कृतस्य वर्चस्वम्! इण्डिया टुडे-क्रमाङ्कने देशस्य शीर्ष-२५ विश्वविद्यालयेषु केन्द्रीयसंस्कृतविश्वविद्यालयस्य स्थानम्
हिमसंस्कृतवार्ता: – आचार्य: मनोजशैल:।
देशस्य श्रेष्ठविश्वविद्यालयानां सर्वेक्षणे केन्द्रीयसंस्कृतविश्वविद्यालयेन नूतनं कीर्तिमानं स्थापितम्। इण्डिया टुडे क्रमाङ्कनम्-२०२६ इत्यस्मिन् देशस्य शीर्ष-२५ विश्वविद्यालयेषु केन्द्रीयसंस्कृतविश्वविद्यालयेन स्थानं प्राप्तम्। सी.एस.यू. इत्यनेन २३तमं स्थानम् अधिगतम्। देहल्याः शीर्षविश्वविद्यालयेषु चतुर्थं स्थानं प्राप्य संस्कृतस्य संस्कृतेश्च गौरवं वर्धितम्।
संस्कृतं भारतीयज्ञानपरम्परां च आधुनिकशिक्षया, अनुसन्धानक्षेत्रेण नवाचारैश्च सह संयोजयितुं दिशि अग्रे गच्छता केन्द्रीयसंस्कृतविश्वविद्यालयेन, नवदेहलीस्थेन, राष्ट्रियस्तरे अन्यद् महत्त्वपूर्णा उपलब्धिः प्राप्ता अस्ति। इण्डिया टुडे-एमडीआरए-बेस्ट् यूनिवर्सिटीज् रैंकिङ्ग-२०२६ इत्यस्य टॉप् जनरल् (Govt.) यूनिवर्सिटीज् इन् इण्डिया इति श्रेण्यां केन्द्रीयसंस्कृतविश्वविद्यालयेन २३तमं स्थानम् अधिगतम्।
विश्वविद्यालयेन गतवर्षस्य २४तमस्थानस्य तुलनायाम् अस्मिन् वर्षे एकपदम् उन्नतिं कृत्वा २३तमं स्थानं प्राप्तम्। विश्वविद्यालयस्य समग्राङ्कः १२४२.६ अभवत्। देहल्याः शीर्षविश्वविद्यालयानां सूच्याम् अपि सी.एस.यू. इत्यनेन स्वस्य सुदृढोपस्थितिं प्रदर्शयता चतुर्थं स्थानम् अधिगतम्।
संस्कृतात् राष्ट्रियक्रमाङ्कनपर्यन्तं यात्रायाः नूतनं सोपानम्
इण्डिया टुडेद्वारा प्रकाशितायां प्रतिष्ठितायां क्रमाङ्कनसूच्यां केन्द्रीयसंस्कृतविश्वविद्यालयस्य Top General (Govt.) Universities in India इति श्रेण्यां २३तमस्थाने स्थितिः अस्य तथ्यस्य संकेतः अस्ति यत् संस्कृतशिक्षा इदानीं केवलं पारम्परिकाध्ययनपर्यन्तं सीमिता नास्ति, अपितु आधुनिकोच्चशिक्षया, अनुसन्धानकार्येण, प्रौद्योगिक्या, नवाचारेण तथा जीविकोन्मुखशिक्षया सह अग्रे वर्धते।
विश्वविद्यालयेन विगतेषु कतिपयेषु वर्षेषु संस्कृतस्य भारतीयज्ञानपरम्परया च सह आधुनिकविषयाणां संयोजनस्य दिशि अनेकाः महत्त्वपूर्णाः प्रयासा: कृताः सन्ति। कृत्रिमबुद्धिमत्ता (Artificial Intelligence) तथा Data Science, आयुर्वेदः, प्राविधिकशिक्षा, अङ्कीयसंसाधनानि, अनुसन्धानकार्यं तथा वैश्विकशैक्षणिकसहयोगः इत्यादिषु क्षेत्रेषु विश्वविद्यालयस्य सक्रियतया तस्य शैक्षणिकपरिचयः विस्तृतः जातः।
संस्कृतस्य वर्धमानवैश्विकप्रासङ्गिकतायाः परिचयं रेखाङ्कयन् केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिः प्रो. श्रीनिवासवरखेडी इत्यनेन क्रमाङ्कने प्राप्ताम् उन्नतिं विश्वविद्यालयपरिवारस्य सामूहिकोपलब्धिः इति कथितम्। सः अवदत् यत् इण्डिया टुडे-क्रमाङ्कने २३तमं स्थानं प्राप्तिः अस्माकं कृते गौरवस्य विषयः अस्ति।
एषा उपलब्धिः केवलं विश्वविद्यालयस्य न, अपितु संस्कृतस्य भारतीयज्ञानपरम्परायाश्च वर्धमानप्रासङ्गिकतायाः प्रमाणमपि अस्ति। वयं संस्कृतं आधुनिकसन्दर्भैः सह संयोजयित्वा अनुसन्धानम्, नवाचारं तथा प्राविधिकशिक्षां प्रति विशेषं ध्यानं दत्तवन्तः। विश्वविद्यालयस्य लक्ष्यं संस्कृतं एकविंशतितमशताब्द्याः आवश्यकताभिः सह संयोज्य ज्ञानस्य, अनुसन्धानस्य तथा जीविकाया: नूतनानाम् अवसराणां माध्यमरूपेण विकसितुं वर्तते। एतत् क्रमाङ्कनं विश्वविद्यालयं भविष्ये अधिकतरं श्रेष्ठप्रदर्शनं कर्तुं प्रेरयिष्यति।
विश्वविद्यालयस्य कुलसचिवः प्रो. आर. जी. मुरलीकृष्णः अवदत् यत् क्रमाङ्कने एकपदस्य उन्नतिः विश्वविद्यालयस्य आचार्याणां, शोधार्थिनां, विद्यार्थिनां, अधिकारिणां तथा कर्मचारिणां सामूहिकप्रयासस्य परिणामः अस्ति। सः अवदत् यत् एषा उपलब्धिः संस्कृतशिक्षायाः गुणवत्तायाः तथा तस्याः समकालीनोपयोगितायाः राष्ट्रियस्तरे नूतनां प्रतिष्ठां प्रददाति। विश्वविद्यालयः भविष्ये एतस्मादपि श्रेष्ठं स्थानं प्राप्तुं प्रतिबद्धः अस्ति।
इण्डिया टुडे-क्रमाङ्कनम्-२०२६ इत्यस्मिन् केन्द्रीयसंस्कृतविश्वविद्यालयः Top General (Govt.) Universities in India इति श्रेण्यां २३तमस्थाने स्थितः, यदा तु देहल्याः शीर्षविश्वविद्यालयानां क्रमाङ्कने विश्वविद्यालयेन चतुर्थं स्थानम् अधिगतम्। गतवर्षस्य २४तमस्थानस्य तुलनायाम् अस्मिन् वर्षे एकपदस्य उन्नतिः विश्वविद्यालयस्य निरन्तरवर्धमानां शैक्षणिकप्रतिष्ठां दर्शयति।
संस्कृतस्य परम्परातः आधुनिकप्रौद्योगिकीपर्यन्तं केन्द्रीयसंस्कृतविश्वविद्यालयस्य एतद् प्रदर्शनं भारतीयज्ञानपरम्परायाः परिवर्तमानस्वरूपस्य तस्याः च नूतनराष्ट्रियपरिचयस्य कथा कथयति।
