मुख्यमन्त्री सुक्खू बिलासपुरस्य १५०० धीवरेभ्यः व्यतरत् ५२.५० लक्ष-रूप्यकाणि, अर्थदण्ड-क्षमापनेन सह अनेकाः महत्यः घोषणाः
हिमसंस्कृतवार्ता — बिलासपुरम्।
मुख्यमन्त्री सुखविन्दरसिंहसुक्खू-महोदयः बिलासपुर-मण्डलस्य झण्डूता-विधानसभा-क्षेत्रस्य प्रवास-काले ‘मुख्यमन्त्री-धीवर-सम्मान-निधि-योजनायाः’ अन्तः बिलासपुर-मण्डलस्य १५०० धीवरेभ्यः ३५०० रूप्यकाणि प्रति-लाभार्थी-दरेण आहत्य ५२.५० लक्ष-रूप्यकाणाम् राशिम् प्रत्यक्ष-लाभ-हस्तान्तरण-माध्यमेन (DBT) प्रेषितवान्। तेन धीवर-समितिषु आरोपितस्य पञ्च-गुणित-अर्थदण्डस्य क्षमापनं तथा च शीत-ग्रह-एककानाम् (Cold Storage Units) संस्थापनाय दीयमानाम् आर्थिक-साहाय्य-राशिं (Subvention) ७० प्रतिशतात् वर्धयित्वा ८० प्रतिशतं कर्तुम् घोषणा अपि कृता।
तेन सम्पूर्ण-प्रदेशे धीवरेभ्यः ‘लाइफ-जैकेट’-सुरक्षा-वस्त्राणि उपलब्धं कारयितुम् ५० लक्ष-रूप्यकाणि धीवरेभ्यः ‘लैंडिंग’-सुविधाः विकसितुम् १० लक्ष-रूप्यकाणि दातुम् घोषणा कृता। एतदतिरिच्य, झण्डूता-विधानसभा-क्षेत्रे १० सम्पर्क-मार्गाणाम् निर्माण-कार्याणि पूर्णं कर्तुं प्रत्येक-मार्गाय १०-१० लक्ष-रूप्यकाणि दातुम् घोषणा कृता। तेन राजकीय-स्नातक-महाविद्यालये झण्डूता-मध्ये ‘बीसीए’ ‘बीबीए’ कक्षाः प्रारब्धुम् घोषणा अपि कृता।
अस्मिन् अवसरे धराडसानी-मध्ये आयोजितां जनसभां सम्बोधयन् मुख्यमन्त्रिणा उक्तं यत् जनानाम् महत्वाकाङ्क्षाः श्रुत्वा तासाम् अनुरुपं नीतीनाम् निर्माणमेव ‘व्यवस्था-परिवर्तनस्य’ वास्तविकः सारः ध्येयश्च अस्ति। तेन प्रोक्तं यत् एकात् सामान्यात् परिवारात् मुख्यमन्त्रिपदं यावत् प्राप्तिकारणेन सः सामान्य-जनानाम् सम्मुखे आगच्छन्तीः कठिनता: अवगच्छति। तेन उक्तं यत् धीवराणाम् कठोरं परिश्रमं तेषाम् योगदानं च ध्याने निधाय राज्यसर्वकारेण तेषां कल्याणाय अनेके महत्त्वपूर्ण-निर्णयाः गृहीताः।
मुख्यमन्त्रिणा सुक्खू-महोदयेन उक्तं यत् जलाशयेभ्यः गृहीतानां मत्स्यानाम् उपरि राजदेयं (Royalty) वित्तीय-वर्षे २०२५-२६ मध्ये १५ प्रतिशतात् न्यूनीकृत्य ७.५० प्रतिशतं कृतम् आसीत् अधुना च एतत् इतोऽपि न्यूनीकृत्य केवलम् एकं प्रतिशतम् कृतम् अस्ति। तेन प्रोक्तं यत् प्रदेशे उत्पादितान् मत्स्यान् देहली-चण्डीगढ-सदृशेषु प्रमुख-विपणीषु प्रेषयितुम् राज्यसर्वकारः ‘रेफ्रिजरेटेड’-वाहनानाम् क्रयणाय ७० प्रतिशतं साहाय्यं (Subvention) ददाति। तेन उक्तं यत् धीवरेभ्यः श्रेष्ठं सुरक्षितं च जीवनं निश्चितं कर्तुम् सर्वकारः प्रमुखतया कार्यं करोति। अस्यां दिशि ग्रामीण-अर्थव्यवस्था सुदृढा क्रियमाणा अस्ति येन जनेभ्यः स्व-ग्रामेषु एव आजीविकायाः साधनानि उपलब्धानि भवेयुः।
मुख्यमन्त्रिणा उक्तं यत् पूर्वतन-भाजपा-सर्वकारस्य काले हिमाचलप्रदेशः गुणवत्तापूर्ण-शिक्षायाः विषये देशे २१-तमे स्थाने अपसृतः आसीत्। तेन प्रोक्तं यत् वर्त्तमान-राज्यसर्वकारस्य दृढ-प्रयासैः हिमाचलप्रदेशः अधुना छात्रेभ्यः गुणवत्तापूर्णां शिक्षां उपलब्धं कारयितुं विषये पञ्चमे स्थाने प्राप्तः अस्ति। तेन उक्तं यत् सर्वकारस्य प्रयासैः १५० ‘सीबीएसई’-विद्यालयाः उद्घाटिताः, येषां परिणामस्वरूपे सर्वकारीय-विद्यालयेषु बालकानाम् प्रवेशे प्रायः २४,००० वृद्धि: पञ्जीकृता। तेन प्रोक्तं यत् राज्यसर्वकारेण दुग्धस्य मूल्येषु प्राकृतिक-कृष्या सज्जीकृतानाम् उत्पादानाम् न्यूनतम-समर्थन-मूल्येषु (MSP) ऐतिहासिक-वृद्धि: कृता अस्ति। तेन उक्तं यत् वनानाम् विस्तारं दातुम् रोपणाय च महिला-मण्डलेभ्यः युवक-मण्डलेभ्यः च अपि आर्थिकी सहायता दीयमाना अस्ति। तेन प्रोक्तं यत् अस्माकं सर्वकारस्य ध्येयमस्ति यत् ग्रामेषु वसन्तः जनाः स्व-ग्रामेषु एव आजीविकाम् अर्जयन्तु धनं च प्राप्नुयुः।
मुख्यमन्त्रिणा सुक्खू-महोदयेन उक्तं यत् राज्यसर्वकारेण भ्रष्टाचारस्य चौराणि द्वाराणि पिहितानि। सर्वकारस्य प्रयासैः रक्षितस्य धनस्य उपयोगः धीवराणाम् कल्याणाय तथा च निराश्रितानाम् अन्येषाम् आवश्यक-बालकानाम् उच्च-शिक्षायै साहाय्यं दात्रीणां योजनानाम् कार्यान्वयने क्रियमाणः अस्ति। तेन प्रोक्तं यत् उच्च-शिक्षां प्राप्नुवद्भ्यः छात्रेभ्यः केवलम् एक-प्रतिशत-वृद्ध्यङ्केन (ब्याज दर) शिक्षा-ऋणम् अपि उपलब्धं कार्यमाणम् अस्ति।
मुख्यमन्त्रिणा उक्तं यत् राज्यसर्वकारः ‘एम्स’-नूतन-देहल्याः रीत्या प्रदेशस्य सर्वकारीय-चिकित्सा-महाविद्यालयेषु विशेषज्ञ-स्वास्थ्य-सेवाः उपलब्धं कारयति। तेन प्रोक्तं यत् ‘रोबोटिक-सर्जरी’-सहिताः उन्नताः चिकित्सा-सुविधाः जनेभ्यः अधुना प्रदेशे एव उपलब्धाः क्रियमाणाः सन्ति। प्रदेशसर्वकारः आपदा-प्रभावितेभ्यः परिवारेभ्यः स्वकीय-संसाधनेभ्यः अष्ट-लक्ष-रूप्यकाणां साहाय्यम् अपि ददाति। सर्वकारः एतत् निश्चितं करोति यत् जनतायाः धनस्य उपयोगः जनानां कल्याणाय भवेत्। तेन उक्तं यत् यदि केनचित् जनेन भ्रष्टाचारेण सम्पत्तिः अर्जिता अस्ति, तर्हि सर्वकारः नियमानुसारं कार्यविधिं करिष्यति। तेन जनेभ्यः भ्रष्टाचारस्य विरुद्धं युद्धे सहयोगं कर्तुम् आह्वानं कृतम्।
