पुनः बृहद्पटले दर्शनं दास्यत: सञ्जयदत्तः सलमानखानश्च, अरबीचलच्चित्रं ‘7 डॉग्स’ भारतदेशे अस्मिन् दिने प्रदर्शितं भविष्यति
वार्ताहर:- जगदीश डाभी, मुम्बई
(हिमसंस्कृतवार्ता:) चलच्चित्रजगतः प्रसिद्धौ अभिनेतारौ सलमानखानः सञ्जयदत्तश्च दीर्घकालात् परस्परं सुमित्रौ स्तः। तौ परस्परं भ्रातरौ इव मन्येते। अधुनापि बहुवारं ताभ्यां माध्यमानां पुरतः परस्परं भ्रातृभावस्य उल्लेखः कृतः अस्ति। उभाभ्यां सहैव अनेकासु चलच्चित्रेष्वपि अभिनयः कृतः अस्ति। ‘साजन’, ‘चल मेरे भाई’ तथा ‘ये है जलवा’ इत्येतासु चलच्चित्रेषु तौ सहैव दृष्टौ आस्ताम्। किन्तु वर्षे २००२ तमे प्रदर्शितस्य ‘ये है जलवा’ इति चलच्चित्रस्य अनन्तरं तौ पुनः बृहद्पटले सहैव न दृष्टौ। प्रशंसकाः तु इच्छन्ति यत् तौ पुनः एकवारं बृहद्पटले सहैव दृश्येयाताम्। अधुना तेषां इच्छा पूरिता भवितुं गच्छति।
चलच्चित्रजगतः प्रसिद्धौ सलमानखानः सञ्जयदत्तश्च ‘7 डॉग्स’ इति चलच्चित्रे सहैव दृश्येते। एतत् अरबीभाषायां निर्मितं चलच्चित्रम् अस्ति, यस्मिन् उभाभ्यां कलाकाराभ्यां अतिथिभूमिकायां अभिनयः कृतः अस्ति। एतत् अरबीचलच्चित्रं कतिपयमासेभ्यः पूर्वं मध्यपूर्वदेशेषु प्रदर्शितम् आसीत्। अधुना तु भारतदेशेऽपि अस्य प्रदर्शनं भविष्यति। अलीकमेव सलमानखानेन सामाजिकमाध्यमे एकं दृश्यक्लिप् प्रकाशितं कृत्वा अस्य चलच्चित्रस्य प्रदर्शनतिथिः सूचिता। अगस्तमासस्य २१-दिनाङ्के एतत् चलच्चित्रं भारतदेशस्य चलचित्रगृहेषु प्रदर्शितं भविष्यति।
प्राप्तवार्तानुसारम्, अस्य चलच्चित्रस्य निर्माता सऊदी-अरबदेशस्य सामान्यमनोरञ्जनप्राधिकरणस्य अध्यक्षः तुर्की अल-शेखः अस्ति। तेन सह सलमानखानस्य सञ्जयदत्तस्य च सुमधुराः सम्बन्धाः सन्ति। तयोः परस्परसौहार्दपूर्णसम्बन्धस्य कारणेन एव उभाभ्यां कलाकाराभ्यां अस्मिन् चलच्चित्रे अतिथिभूमिकायां अभिनयः कृतः अस्ति।
#salmankhan #SanjayDutt #7dogs #movierelease
