“HTET-परीक्षायां संस्कृतविभागस्य विद्यार्थिनां भव्यसफलता”
हरियाणा-केन्द्रीय-विश्वविद्यालयस्य संस्कृतविभागेन पुनरेकवारं स्वकीयायाः शैक्षणिक-उत्कृष्टतायाः प्रमाणं प्रदर्शितम्। विभागस्य चतुर्दश प्रतिभाशालिनः विद्यार्थिनः प्रतिष्ठितायां हरियाणा-शिक्षक-पात्रता-परीक्षायां (HTET) उल्लेखनीयां सफलतां प्राप्य स्वविभागस्य विश्वविद्यालयस्य च गौरवं वर्धितवन्तः। एतेषु विद्यार्थिषु विजयपालः, चोखराजः, ज्योतिः, ज्योतिर्यादवः, रचना, चेतनश्च केवलं TGT-वर्गे सफलतां प्राप्तवन्तः। रितु, सपना, तन्नू, मनीषा च TGT-PGT चेत्युभययोः वर्गयोः सफलतां प्राप्तवत्यः। विश्वविद्यालयस्य माननीयः कुलपतिः प्रो. टङ्केश्वरकुमारः सर्वेभ्यः सफलविद्यार्थिभ्यः अस्याः उल्लेखनीयायाः सफलतायाः कृते हार्दिकं अभिनन्दनं व्याजहार। सः स्वसन्देशे अवदत्— “एषा सफलता अस्माकं विद्यार्थीनां निरन्तरप्रयत्नस्य समर्पणस्य च शिक्षकाणां श्रेष्ठमार्गदर्शनस्यापि परिणामः अस्ति। अहं पूर्णतया विश्वसिमि यत् एते प्रतिभाशालिनः विद्यार्थिनः भविष्ये श्रेष्ठशिक्षकरूपेण राष्ट्रस्य समाजस्य च निर्माणे स्वमूल्यवान् योगदानं प्रदास्यन्ति।” संस्कृतविभागस्य विभागाध्यक्षा प्रो. पायल-कँवर-चन्देल-महोदया अपि सफलानां छात्राणां शुभकामनाः प्रदाय तेषां कठिनपरिश्रमस्य प्रशंसां कृतवती। सा प्रसन्नतां प्रकटयन्ती अवदत्— “अस्माकं विद्यार्थिभिः HTET-सदृश्यायां कठिनपरीक्षायां उत्कृष्टं प्रदर्शनं कृत्वा न केवलं स्वीयं, अपितु सम्पूर्णस्य संस्कृतविभागस्यापि गौरवं वर्धितम्। एषा सफलता विभागस्य अन्येषां विद्यार्थिनामपि कृते महती प्रेरणा अस्ति।” विभागीयाः शिक्षकाः डॉ. सुमनरानी, डॉ. देवेन्द्रसिंहराजपूतः, डॉ. सुमितशर्मा, डॉ. कृष्णकुमारः, डॉ. अर्चनाकुमारी च सफलविद्यार्थिभ्यः अस्याः उपलब्धेः कृते हार्दिकान् शुभकामनाः प्रदत्तवन्तः तथा तेषां उज्ज्वलभविष्यस्य कामनां कृतवन्तः। एषा सफलता न केवलम् एतेषां विद्यार्थिनां उज्ज्वलभविष्यस्य सुदृढं आधारं निर्माति, अपितु हरियाणा-केन्द्रीय-विश्वविद्यालयस्य संस्कृतविभागे प्रदीयमानायाः उच्चस्तरीयशिक्षायाः, उत्कृष्टाध्यापनस्य तथा कुशलमार्गदर्शनस्य च परिचायकत्वेन अपि तिष्ठति। सम्पूर्णस्य विश्वविद्यालयपरिवारस्य पक्षतः सर्वेभ्यः भावीशिक्षकेभ्यः तेषां स्वर्णिमभविष्याय अनन्ताः हार्दिकाः शुभकामनाः।
“HTET-परीक्षायां संस्कृतविभागस्य विद्यार्थिनां भव्यसफलता”
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
