‘टॉक्सिक’ चलच्चित्रस्य विज्ञापन पुटकं जातम्
वार्ताहर: – जगदीश डाभी, मुम्बई
(हिमसंस्कृतवार्ता:) ‘टॉक्सिक’ इति चलच्चित्रस्य विज्ञापन पुटकं प्रसारितं अभवत्। अस्मिन् विज्ञापनखण्डे अत्यधिकं क्रियादृश्यं (एक्शन सीन) वर्तते। एतानि क्रियादृश्यानि अतीव हिंसात्मकानि सन्ति। अस्य प्रारम्भः पितृ-पुत्राभ्यां भवति। पुत्रः स्वपितरं वदति— “क्रोधं मा करोतु, अहं भवतः सर्वं वचनं पालयिष्यामि।” एतौ पिता पुत्रश्च उभौ अपि यशस्य एव पात्रे स्तः। यशः पितुः पुत्रस्य च उभयोः भूमिकां निर्वहति। पितुः पात्रस्य नाम ‘राया’ अस्ति, यः एकः असाधुः (गैंगस्टर) अस्ति। वहीं, पुत्रस्य पात्रस्य नाम ‘रुमी’ इति अस्ति।
पितृ-पुत्रयोः प्रवेशानन्तरं विज्ञापनखण्डे कियारा आडवाणी दृश्यते, या सर्कस-मध्ये कार्यं करोति, रुम्याः माता च अस्ति। ततः परम् एकमेकं कृत्वा सर्वेषां मुख्यकलाकाराणां प्रवेशः भवति। कलाकाराणां प्रवेशेन सह उग्रं क्रियादृश्यम् अपि द्रष्टुं लभ्यते, यस्मिन् शोणितपातः भूरिशः हिंसादृश्यानि च सन्ति। एषः विज्ञापनखण्डः रणबीरकपूरस्य ‘एनिमल’ चलच्चित्रमिव प्रतीयते, यतो हि अस्मिन् अत्यधिकाहिंसा दर्शिता अस्ति।
‘टॉक्सिक’ चलच्चित्रस्य अस्य विज्ञापनखण्डस्य वैशिष्ट्यम् इदम् अस्ति यत् यशः अस्मिन् सुदीर्घकालानन्तरं श्मश्रुरहिते (बिना दाढ़ी) रूपे दृश्यते। ‘केजीएफ’ चलच्चित्रानन्तरं यशः प्रायः श्मश्रुसहिते रूपे एव दृष्टः। ‘रामायणम्’ इत्यस्मिन् अपि सः श्मश्रुसहिते रूपे एव दृश्यिष्यते। किन्तु इदानीं तेन ‘टॉक्सिक’ इति चलच्चित्राय श्मश्रुः निष्कासितः। तथापि ‘टॉक्सिक’ मध्ये तस्य एकं पात्रं श्मश्रुसहितं भविष्यति, अपरं च पात्रं श्मश्रुरहितं द्रक्ष्यते।
‘टॉक्सिक’ चलच्चित्रस्य एषः विज्ञापनखण्डः प्रभावशाली अस्ति। यद्यपि अस्मिन् कानिचित् पात्राणि दृष्ट्वा किञ्चित् संशयः अपि भवति, तथापि जनैः एषः विज्ञापनखण्डः रोच्यते। एतं दृष्ट्वा एतादृशं प्रतीयते यत् एतत् चलच्चित्रं चलच्चित्रगृहेषु (बॉक्स ऑफिस) नूतनान् कीर्तिमानान् स्थापयिष्यति।
