हिमाचलप्रदेशस्य चम्बा-मण्डले गतदिवसे प्रात निज-बस दुर्घटनायां सप्त जनाः मृताः, एकादश जनाः व्रणिताः च अभवन्
हिमसंस्कृतवार्ता। हिमाचलप्रदेशस्य चम्बा जनपदे बसदुर्घटनायां सप्तजनाः मृताः, एकादश जनाः च व्रणिताः। इयं दुर्घटना गतदिवसे प्रातः सपादसप्तवादने अभवत्। प्रारम्भिकसूचनानुसारं बसयानं बैरागढतः चम्बानगरं प्रति गच्छति स्म। चालुआन्ज समीपे बसयानं अनियन्त्रितं जातम् । ततः यानं मार्गाद् अधः अन्यस्मिन् मार्गे गतम्। दुर्घटनायाः कारणानाम् अन्वेषणं क्रियते। मृतानाम् अभिज्ञानम् इदानीमपि न जातम्। राष्ट्रपतिः द्रौपदी मुर्मुः, प्रधानमन्त्री नरेन्द्रमोदी च अस्यां दुर्घटनायां गहनं दुःखं प्रकटितवन्तौ। राष्ट्रपतिः अपि आहतानाम् आरोग्यस्य कामनाम् अकरोत्। प्रधानमन्त्री मोदी मृतानां परिवारेभ्यः शोकं प्रकटितवान्।
हिमाचलप्रदेशस्य चम्बा-मण्डले गतदिवसे प्रातः निज-बस दुर्घटनायां सप्त जनाः मृताः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
