*असमराज्ये भीषणजलप्लवनम् – कुमारभास्करवर्म-संस्कृतपुरातनाध्ययनविश्वविद्यालयस्य संस्कृतभारत्याः च संयुक्ता श्रमदानयात्रा प्रारब्धा*
नलबारी असमः, दिनाङ्क: ०७/०८/२०२६
भारतस्य उत्तर-पूर्वसीमान्ते स्थितस्य असमराज्यस्य भूभागे साम्प्रतम् आपतितं जलप्लवनम् अतीव भयावहं भीषणं च रूपं धारितवत् अस्ति। अत्यन्तवृष्ट्या नदीनां वर्धितजलपरिमाणस्य कारणात् राज्यस्य अनेके जनपदाः पूर्णतया जलमग्नाः जाताः। अस्मिन् प्रकृतिकोपे बहवः जनाः स्वकीयान् गृहान्, जीवनोपयोगिवस्तूनि, पशुधनं च हृतवन्तः। सहस्रशः जनाः निराश्रिताः सन्तः सुरक्षिताश्रयस्थलानि अन्विष्यन्ति।
अतः अस्यामापदि जलप्लवपीडितानां जनानां साहाय्यार्थम्, सेवाभावं पुरस्कृत्य, नलबारीजनपदे स्थितस्य प्रतिष्ठितस्य ‘कुमारभास्करवर्मसंस्कृत-पुरातनाध्ययनविश्वविद्यालयस्य’ तथा च ‘संस्कृतभारत्याः उत्तर-असम-प्रान्तस्य’ संयुक्ततत्वावधाने अद्य एकस्य महतः श्रमदान-कार्यक्रमस्य यात्रायाः आरम्भः अभवत्।
२०२६ तमवर्षस्य अगस्तमासस्य सप्तमे दिनाङ्के , अपराह्णे त्रिवादने अस्य ऐतिहासिकस्य श्रमदान-संघस्य प्रस्थानं जातम्। एतत् श्रमदानदलं मुख्यतया असमस्य अत्यधिकं प्रभावितं शिवसागरमण्डलं प्रति प्रस्थितम् अस्ति। शिवसागरमण्डले जलप्लवेन आपन्नानां जनानां तात्कालिक-साहाय्यं, स्वच्छता-कार्यं तथा च पुनर्वासकार्येभ्यः श्रमदानम् अस्याः यात्रायाः मुख्यमुद्देश्यमस्ति। एषः संघः श्वः प्रातः शिवसागरमण्डलं सम्प्राप्य स्वस्य सेवाकार्यं तीव्रगत्या प्रारप्स्यते।
विश्वविद्यालयस्य कुलपतिवर्याणां प्रो. प्रह्लाद-रा-जोशीमहोदयानां नेतृत्वम्
अस्य श्रमदानाभियानस्य सर्वथा प्रशंसनीयः पक्षः अस्ति । तेषां प्रेरणादायिना नेतृत्वेन विश्वविद्यालयस्य सर्वे अध्यापकाः, शोधच्छात्राः, सामान्यच्छात्राः, कर्मचारिणः च महता उत्साहेन अस्मिन् सेवायज्ञे सहभागिनः अभवन्।
सहैव, संस्कृतभारत्याः उत्तर-असम-प्रान्तस्य अनेके निष्ठावन्तः समर्पणशीलाः च कर्तारः अपि अस्मिन् कार्ये सहभागिनः सन्ति। संस्कृतभारत्याः कार्यकतारः सदैव राष्ट्रिय-आपत्कालेषु सेवाकार्येभ्यः तत्पराः भवन्ति, अत्रापि तेषाम् उपस्थितिः संघस्य उत्साहं वृद्धिं करोति।
विश्वविद्यालयस्य लोकयानेन अस्याः सेवायात्रायाः शुभारम्भः अभवत्। जलप्लवेन पीडितानां भ्रातॄणां भगिनीनां च दुःखमुन्मूलयितुम् सर्वेषां वदनेषु, मनःसु च दृढसङ्कल्पः स्पष्टं दृश्यते स्म।
अस्याः श्रमदानयात्रायाः सफलीभावाय तथा च शिवसागरस्य जलप्लवनपीडितानां शीघ्र-सामान्यजीवनाय सर्वे शुभकामनाः प्रकटयन्ति। अद्य श्रमदानकार्यक्रमस्य नेतृत्वं विश्वविद्यालयस्य कुलपतिना आचार्येण प्रह्लाद रा.जोशीमहोदयेन तथा च संस्कृतभारत्याः उत्तरासमप्रान्तस्य प्रान्तमन्त्रिणा श्रीपङ्कजशर्मणा च प्रदीयते। प्रतिभागीरूपेण विश्वविद्यालयपक्षतः प्रो. रणजीततिवारिमहोदयः, डॉ .छविलाल-उपाध्यायः महोदयः, डॉ.मिलनमाझि तथा च संस्कृतभारतीपक्षतः , संघटनमन्त्री श्रीभवेनसैकिया , सहसंघटनमन्त्री श्रीराजेनाचार्यः अनिर्वानादयः सन्ति । सेवाकार्येऽस्मिन् ५० जनाः भागं
