२० वर्षेभ्यः परम् प्राप्ता सफलता, डलहौजी-वनक्षेत्रे द्वयोः दशकयोः अनन्तरम् दृष्टः दुर्लभः ‘अज-मृगः’
हिमसंस्कृतवार्ता: — चम्बा।
चम्बा-मण्डलस्य डलहौजी-वनक्षेत्रेषु प्रायः द्वयोः दशकयोः अनन्तरम् दुर्लभस्य अज-मृगस्य (‘हिमालयन-सीरो) उपस्थितिः पञ्जीकृता अस्ति। कालाटोप-खज्जियार-वन्यजीव-अभयारण्यात् सम्बद्धे डलहौजी-जलागम-क्षेत्रे (Catchment Area) एषः दुर्लभः वन्यजीवः प्रथमतया ‘कैमरा’-यन्त्रे अभिलेखित: अस्ति। अतः मन्यते यत् क्षेत्रस्य प्राकृतिक-आवासः अधुना अपि अस्याः दुर्लभ-प्रजात्याः कृते सुरक्षितः अनुकूलश्च अस्ति। यत्किञ्चित् ‘हिमालयी-सीरो’-प्राणी ‘कैमरा’-यन्त्रे आबद्धं जातम्, एतत् वन-विभागः एकां महतीम् उपलब्धिं मन्यते। सूचनानुसारं वन-विभागेन वन्यजीव-निरीक्षणाय ‘कैमरा’-यन्त्राणि स्थापितानि सन्ति। एतेषु यन्त्रेषु ‘हिमालयन-सीरो’-प्राणिनः चित्राणि गतिविधयश्च रिकॉर्ड-जातानि। गतेभ्यः प्रायः २० वर्षेभ्यः अस्मिन् क्षेत्रे अस्य दुर्लभ-जन्तोः कापि प्रामाणिकी उपस्थितिः पञ्जीकृता न अभवत्। तादृशे अस्य पुनः दर्शनं वन्यजीव-संरक्षणस्य दिशि महती सफलता मन्यते।
’हिमालयन-सीरो’ एकः लज्जाशीलः न्यून-दृश्यमानः च वन्य-खुरयुक्त-स्तनपायी प्राणी अस्ति, यः सामान्यतया घनेषु वनेषु, शैल-प्रवणेषु दुर्गेषु पर्वतीय-क्षेत्रेषु च वसति। अस्य सङ्ख्या परिमिता अस्ति, अतः अस्य गणना दुर्लेभेेषु वन्यजीवेषु भवति। विशेषाणां मन्यते यत् अस्याः प्रजात्याः प्रत्यावर्तनेन क्षेत्रस्य जैव-विविधतायाः वन-पारिस्थितिक-तन्त्रस्य (Eco-system) च श्रेष्ठ-स्थितेः अपि सङ्केतः प्राप्यते। वन-विभागस्य कथनम् अस्ति यत् अस्याः दुर्लभ-प्रजात्याः उपस्थितिं दृष्ट्वा डलहौजी-जलागम-क्षेत्रे तत्समीपस्थेषु वन-क्षेत्रेषु च निरीक्षणं संरक्षण-गतिविधयश्च इतोऽपि सुदृढाः करिष्यन्ते। साकमेव स्थानीय-जनेभ्यः अपि प्रार्थना कृता अस्ति यत् वन्यजीवानां प्राकृतिक-आवासं सुरक्षितं स्थापयितुं सहयोगं कुर्वन्तु, येन तादृशाः दुर्लभाः प्रजातयः भविष्ये अपि सुरक्षिताः तिष्ठेयुः। ‘कैमरा’-यन्त्रे अस्य चित्रं गृहीतं जातम्, अनेन क्षेत्रस्य जैव-विविधतायै संरक्षण-प्रयासेभ्यः च नूतना शक्तिः प्राप्ता। ‘हिमालयन-सीरो’ भारतस्य हिमालयी-राज्येभ्यः अतिरिच्य नेपाल-भूटान-दक्षिण-पूर्व-एशिया-देशानां केषुचित् भागेषु प्राप्यते। कालाटोप-खज्जियार-वन्यजीव-अभयारण्यं पूर्वमेव कृष्ण-भल्लूकः, तरक्षुः (तेंदुआ), घोरलः, कस्तूरी-मृगः इति सहितानां बहुनां महत्त्वात्मकानां वन्यजीवानां निवासस्थानं मन्यते। अतः डलहौजी-जलागम-क्षेत्रे ‘सीरो’-प्राणिनः नवीना रिकॉर्डिंग-प्रक्रिया अस्य पारिस्थिति-महत्त्वम् इतोऽपि वर्धितवती। एष: दुर्लभ: अभिलेख: न केवलं वन्यजीव-प्रेमिभ्यः, अपितु सुरक्षा-संस्थाभ्यः (Agencies) अपि एकः सकारात्मकः सङ्केतः अस्ति।
२० वर्षेभ्यः परम् प्रत्यावर्तनम्
वन-बल-प्रमुखः डॉ. सञ्जयसूदः अवदत् यत् चम्बा-मण्डलस्य डलहौजी-वनक्षेत्रेषु द्वयोः दशकयोः अनन्तरम् अस्य वन्यजीवस्य प्रत्यावर्तनं हिमाचलप्रदेशस्य समृद्ध-जैव-विविधतायाः सफलानां संरक्षण-प्रयासानां च एकः उत्साहवर्धकः परिणामः अस्ति। डी.एफ.ओ. डॉ. कुलदीपसिंहजमवालः ज्ञापितवान् यत् ‘हिमालयन-सेरो’-प्राणिनः प्रथमम् दृश्य-माध्यमम् (Video Record) उपलब्धम् अभवत्।
