Loading Viewer...
माननीयकुलपतिमहोदयस्य आचार्यप्रह्लादरा.जोशिवर्यस्य सफलचतुर्वर्षसम्पूर्त्याः पञ्चमवर्षारम्भस्य च शुभावसरे सादरमभिनन्दनम्
“यथा राजा तथा प्रजा” इति लोकोक्तिः शिक्षासंस्थास्वपि सम्यगुपपद्यते। यस्य नेतृत्वं दूरदर्शि-न्यायनिष्ठ-कर्मठं च भवति, तस्य संस्थायाः सर्वतोमुखी उन्नतिः स्वाभाविकतया भवति। अस्माकं कुमारभास्करवर्मसंस्कृतपुरातनाध्ययनविश्वविद्यालयस्य माननीयकुलपतिमहोदयः तादृशस्य आदर्शनेतृत्वस्य मूर्तिमानुदाहरणस्वरूपः वर्तते।
तस्य यशस्विनः चतुर्वार्षिककार्यकालस्य पूर्णतायामिदं सम्पूर्णविश्वविद्यालयपरिवारस्य पक्षतः हार्दिकमभिनन्दनं कृतज्ञताञ्च समर्पयामः।
एतेषु चतुर्षु वर्षेसु विश्वविद्यालयस्य शैक्षणिक- प्रशासनिक-सांस्कृतिक- तथा आधारभूतसंरचनात्मकविकासः अभूतपूर्वतया सम्पन्नः। तेषां प्रबुद्धनेतृत्वेन विश्वविद्यालयः न केवलम् असमराज्ये, अपितु समग्रभारते संस्कृतशिक्षायाः प्रमुखकेन्द्रत्वेन स्वकीयां विशिष्टां प्रतिष्ठां सुदृढीकृतवान्।
यदा भवता कुलपतिपदस्य दायित्वं स्वीकृतम्, तदा विश्वविद्यालये संस्कृताध्ययनार्थं मुख्यतया साहित्य-सर्वदर्शन-वेदाध्ययनविभागाः एव आसन्। संस्कृत-भारतीयज्ञानपरम्परायाः संरक्षणाय, संवर्धनाय, प्रसाराय च भवता न्याय-मीमांसा-धर्मशास्त्र-पुराणेतिहास-योगविज्ञान-प्रभृतीनां नवीनविभागानां स्थापना कृता तथा तेषु स्थायिशिक्षकाणां नियुक्तिरपि सम्पन्ना। एतत् भवतः दूरदर्शिनः नेतृत्वस्य शैक्षणिकप्रतिबद्धतायाश्च उज्ज्वलं प्रमाणम्।
समकालीनशिक्षायाः आवश्यकतामवलोक्य भवता सङ्गणकविज्ञानाध्यापनस्य प्रारम्भः कृतः तथा सङ्गणकविज्ञानविषये योग्याध्यापकस्य नियुक्तिरपि कृता। एतेन संस्कृतशिक्षया सह आधुनिकविज्ञानस्य समुचितः समन्वयः साधितः, विद्यार्थिनश्च आधुनिकसङ्गणकप्रौद्योगिकी-ज्ञानसम्पन्नाः अभवन्।
“शरीरमाद्यं खलु धर्मसाधनम्” इति महनीयभावनया प्रेरितेन भवता शारीरिकशिक्षाविषये सहायकाचार्यस्य नियुक्तिः कृता। तस्य फलस्वरूपं विश्वविद्यालयः क्रीडाक्षेत्रे विशिष्टां ख्यातिं सम्प्राप्तवान्। तथैव संगीतकलायाः संरक्षणसंवर्धनार्थं संगीतविषये शिक्षिकायाः नियुक्तिः कृता, येन विश्वविद्यालयस्य सांस्कृतिकपरम्परा अधिकसमृद्धा अभवत्।
भवतः कार्यकाले सुशासनस्य, पारदर्शितायाः, कार्यदक्षतायाः, उत्तरदायित्वबोधस्य च उत्कृष्टा परम्परा प्रतिष्ठापिता। “सर्वेषां सहयोगः सर्वेषां विकासः” इत्यस्य आदर्शस्य साकाररूपं भवतः प्रशासनमेव। छात्र-शिक्षककर्मचारिणां हितार्थं भवता बहव ऐतिहासिकनिर्णयाः स्वीकृताः। विशेषतया आचार्यपदे नियुक्तयः, पदोन्नतयः तथा शिक्षकेभ्यः सेवानिवृत्तेः आयुः षष्टिवर्षेभ्यः पञ्चषष्टिवर्षपर्यन्तं वर्धयितुमिति प्रयासः निर्णयश्च विश्वविद्यालयस्य इतिहासे स्वर्णाक्षरैः लेखनीयः भविष्यति।
भवतः महत्प्रयत्नैः विश्वविद्यालयपरिसरस्य दीर्घकालप्रचलिता पेयजलसमस्या सम्यक् समाधानमार्गं प्राप्तवती। असमराज्यसर्वकारस्य सहयोगेन द्वितीयछात्रावासनिर्माणकार्यं प्रारब्धम्। एतेन विद्यार्थिनां सुविधाः सम्यगभिवृद्धिं प्राप्ताः।
भवतः नेतृत्वस्य सर्वाधिकं महत्त्वपूर्णं वैशिष्ट्यमिदं यत् अल्पे एव काले विश्वविद्यालये विद्यार्थिनां संख्या प्रायः द्विगुणिता अभवत्। एषा वृद्धिः विश्वविद्यालयस्य वर्धमानप्रतिष्ठायाः, गुणवत्तापूर्णशिक्षायाः, समाजस्य दृढविश्वासस्य च प्रत्यक्षं प्रमाणम्।
माननीयकुलपतिमहोदयः केवलं कुशलः प्रशासकः न, अपितु विद्यार्थिनाम्, शिक्षकाणाम्, कर्मचारिणां च सर्वेषां हितचिन्तकः, मार्गदर्शकः, प्रेरणास्रोतश्च अस्ति। तेषां सरलता, विनयः, न्यायप्रियता, समदृष्टिः, मानवतामूलकव्यवहारश्च सम्पूर्णविश्वविद्यालयपरिवारस्य हृदयेषु विशिष्टं स्थानं प्राप्तवान्।
भारतीयज्ञानपरम्परायाः संरक्षणे, संस्कृतभाषायाः संवर्धने, आधुनिकशिक्षायाः समन्वये, अनुसन्धानप्रोत्साहने, छात्रहितसंरक्षणे तथा प्रशासनिकदक्षतायां भवतः योगदानम् अमूल्यमेव। तस्य नेतृत्वे विश्वविद्यालयः न केवलं प्रादेशिकस्तरे, अपितु राष्ट्रिय-अन्ताराष्ट्रीयस्तरेऽपि स्वकीयां विशिष्टां प्रतिष्ठां सुदृढीकृतवान्।
वयं सर्वे प्रार्थयामहे यत् परमेश्वरः माननीयकुलपतिमहोदयाय दीर्घमायुः, निरामयस्वास्थ्यं, अक्षयामूर्जां, निरन्तरयशश्च प्रददातु। तेषां अवशिष्टकार्यकालेऽपि विश्वविद्यालयः नूतनान् कीर्तिमानः स्थापयित्वा भारतीयज्ञानपरम्परायाः विश्वप्रसिद्धं केन्द्रं भूयादिति मङ्गलकामनाः।
पुनरपि माननीयकुलपतिमहोदयाय हार्दिकमभिनन्दनम्। भवतः यशसा विश्वविद्यालयस्य यशोऽपि निरन्तरं वर्धताम्। भवतः प्रेरणादायिनिनेतृत्वे वयं सर्वे गौरवान्विताः स्मः।
