हिमाचले १४ प्रधानाचार्याः उप-निदेशक-पदे नियोजिताः, सर्वकारेण प्रसारिताः आदेशाः
हिमसंस्कृतवार्ता: — शिमला ।
हिमाचलप्रदेश-सर्वकारेण विद्यालयीय-शिक्षा-विभागे बृहत् प्रशासनिकं परिवर्तनं कुर्वता १४ प्रधानाचार्याः तेषां वर्तमान-वेतनमाने शिक्षा-उप-निदेशकस्य (‘डिप्टी-डायरेक्टर-ऑफ-एजुकेशन’) पदेषु नियोजिताः। शिक्षाविभागस्य सचिवेन राकेशकंवर-महोदयेन प्रसारितायाः अधिसूचनायाः अनुसारं सर्वेभ्यः अधिकारिभ्यः सद्यः प्रभावतः नूतन-स्थाने कार्यभारं ग्रहीतुं निर्देशः दत्तः। आदेशे स्पष्टीकृतं यत् निर्धारिते समये कार्यभारं न गृह्णताम् नियुक्तिः स्वतः निरस्ता मंस्यते।
अधिसूचनायाम् एतदपि उल्लिखितं यत् सर्वाः नियुक्तयः सर्वोच्च-न्यायालाये विचाराधीनायाः विशेष-अनुमति-याचिकायाः (SLP) (सिविल) सङ्ख्या २६२७६/२०२४, लेखराज-इत्येते अन्ये च विरुद्धं हिमाचलप्रदेश-सर्वकारः अन्ये च इत्यस्य अन्तिम-निर्णयस्य अधीनाः स्थास्यन्ति। न्यायालयस्य अन्तिम-निर्णयस्य अनुरूपमेव एतासां नियुक्तीनाम् अग्रेतनी वैधानिकी स्थितिः निर्धारिता भविष्यति।
