स्वतन्त्रता-दिवसात् पूर्वं कसौली-क्षेत्रे उच्च-सतर्कता, एस.डी.एम.-कार्यालयं ‘आर्मी-पब्लिक-विद्यालयं’ प्रति च संतर्जनापूर्णानि ई-मेल-पत्राणि
हिमसंस्कृतवार्ता: — सोलनम् ।
स्वतन्त्रता-दिवसात् पूर्वं सोलन-मण्डलस्य कसौली-क्षेत्रे सुरक्षा-व्यवस्थां प्रति सजगता वर्धिता अस्ति। कसौली-स्थिते एस.डी.एम.-कार्यालये तथा च ‘आर्मी-पब्लिक-स्कूल’ डगशाई-प्रति संतर्जनापूर्णान् (धमकी भरे) ई-मेल-सन्देशान् प्राप्य प्रशासनं सुरक्षा-संस्था: (Agencies) च सजग-स्थितौ (अलर्ट मोड) आगताः सन्ति। विषयस्य सूचनां प्राप्य एव आरक्षकविभागेन (Police) अन्वेषणं प्रारब्धम्, यदा च ‘साइबर’-दलं श्व-दलम् (डॉग-स्क्वाड) अपि सक्रियं कृतम् अस्ति।
प्राप्त-सूचनानुसारं शुक्रवासरे एकेन अज्ञात-ई-मेल-आईडी-माध्यमेन प्रेषिते सन्देशे १५ अगस्त-काले सर्वकारीय-कार्यालयेषु शिक्षण-संस्थासु च लक्ष्य-करणस्य, राष्ट्र-विरोधि-घोषाणां लेखनस्य, भयस्य वातावरणस्य निर्माणस्य च संतर्जना: दत्ताः सन्ति। ई-मेल-पत्रे माध्यमैः (Media), अभिभावकैः, विद्यालय-प्रबन्धकेन च सह सन्देश-प्रापणस्य अपि उल्लेखः कृतः अस्ति।
सूत्राणाम् अनुसारं एषः ई-मेल-सन्देशः एस.डी.एम.-कार्यालय कसौली तथा च ‘आर्मी-पब्लिक-स्कूल’ डगशाई इत्यनयोः अतिरिच्य अन्येषु केषुचित् ई-मेल-सङ्केतेषु अपि प्रेषितः अस्ति। सूचनां प्राप्य एव प्रशासनेन विषयं गम्भीरतया गृहीत्वा आरक्षिसम्बद्धाः सुरक्षा-संस्था: च ज्ञापिताः।
*अन्वेषणे ‘साइबर’-दलं संलग्नम् अस्ति*
एस.डी.एम. कसौली महेन्द्रप्रतापसिंहः ज्ञापितवान् यत् संतर्जनापूर्णं (धमकी भरा) ई-मेल-पत्रं प्राप्य सद्यः आरक्षिविभागं सूचितम्। आरक्षिविभागेन अभियोगं (Case) पञ्जीकृत्य अन्वेषणं प्रारब्धम्। ई-मेल-पत्रस्य तान्त्रिक-परीक्षणाय ‘साइबर’-दलं नियोजितम् अस्ति, यदा च सुरक्षायाः दृष्ट्या श्व-दलम् (डॉग-स्क्वाड’) अपि सजगं कृतम् अस्ति। ई-मेल-प्रेषकस्य परिचयं, तस्य वास्तविकी स्थितिः (Location), सन्देशस्य स्रोतस्य च ज्ञानं प्राप्तुं अङ्कीय-साक्ष्याणाम् (Digital Evidence) विश्लेषणं क्रियमाणम् अस्ति।
*सोलन-नगर-निगमं विस्फोटकैः (Bomb) विनाशयितुं संतर्जना*
अपरत: सोलन-नगर-निगम-कार्यालयं प्रति शुक्रवासरस्य प्रातः एकेन संतर्जनापूर्णेन ई-मेल-पत्रेण प्रशासने आरक्षि-विभागे च ऊहापोह: अभवत्। ई-मेल-पत्रे नगर-निगम-कार्यालयेन सह १५ अगस्त-काले विद्यालयेषु अपि विस्फोटक-विस्फोटानां संतर्जना: दत्ताः आसन्। सूचनां प्राप्य एव आरक्षि-दलं नगर-निगम-कार्यालयं सम्प्राप्तं सुरक्षायाः दृष्ट्या च सम्पूर्णं भवनं निष्कासयित्वा अन्वेषण-अभियानं प्रारब्धवत्। आरक्षण परिसरस्य प्रत्येकस्य भागस्य गहना परीक्षा कृता, यदा च सन्दिग्ध-ई-मेल-पत्रस्य स्रोतस्य ज्ञानं प्राप्तुं प्रयासाः क्रियमाणाः सन्ति। संतर्जनां प्राप्य नगर-निगम-कार्यालये कञ्चित् कालं यावत् कार्यं प्रभावितम् अभवत्। अधिकारिणः कर्मचारिणश्च सावधानता-रूपेण बहिः निष्कासिताः, यदा च पुलिसविभागेन स्थाने सुरक्षा-वलयं रचयित्वा स्थितेः उपरि दृष्टिः स्थापिता। सम्पूर्णं विषयं गम्भीरतया गृहीत्वा ‘साइबर’-पक्षाणाम् अपि परीक्षा क्रियमाणा अस्ति।
सोलनस्य उप-महापौरः (Deputy Mayor) गौरवराजपूतः ज्ञापितवान् यत् नगर-निगमं संतर्जनापूर्णं (धमकी भरा) ई-मेल-पत्रं प्राप्तम्। तेन उक्तं यत् सम्प्रति एतत् वक्तुं शीघ्रता भविष्यति यत् एषा कस्यापि दुष्टता अस्ति अथवा वास्तविकं सङ्कटम्। पुलिसविभाग: सर्वान् पक्षान् गम्भीरतया परीक्षमाणा अस्ति अन्वेषणे पूर्णे सति एव स्थितिः स्पष्टा भविष्यति। तेन जनेभ्यः जनप्रवादेषु ध्यानं न दातुं प्रशासनस्य सहयोगं कर्तुं च प्रार्थना कृता। आरक्षणाधीक्षकः सोलन एस.डी. वर्मा ज्ञापितवान् यत् सूचनां प्राप्य एव आरक्षि-दलं स्थाने सम्प्राप्तम् आसीत्। सम्पूर्णस्य विषयस्य अन्वेषणं क्रियमाणम् अस्ति ई-मेल-पत्रस्य सत्यतया सह तस्य स्रोतस्य अपि ज्ञानं क्रियमाणम् अस्ति। तेन प्रोक्तं यत् सुरक्षायाः सर्वे आवश्यकाः क्रमाः गृहीताः सन्ति सम्प्रति च स्थितिः पूर्णतया आरक्षणायाः निरीक्षणे अस्ति। तेन उक्तं यत् अन्वेषणे पूर्णे भवेत् पूर्वं कस्यापि निष्कर्षे प्राप्तिः उचिता न भविष्यति। सम्प्रति सुरक्षा-संस्था: (Agencies) तान्त्रिकाणाम् अन्येषाम् च सर्वेषां पक्षाणां परीक्षणं कुर्वन्तः सन्ति। नगर-निगम-परिसरे सावधानी-व्यवस्था स्थापिता अस्ति विषयस्य च अन्वेषणं निरन्तरम् अस्ति।
