हिमाचलस्य सर्वकारीय-कर्मचारिभ्यः महती सहायता, अध्ययन-अवकाश-काले लप्स्यते पूर्णं वेतनं देयाः लाभाश्च
हिमसंस्कृतवार्ता: — शिमला।
हिमाचलस्य सुक्खू-सर्वकारेण कर्मचारिभ्यः महती साहाय्यता प्रदत्ता। सर्वकारेण अध्ययन-अवकाशेन (Study Leave) सम्बद्धेषु नियमेषु परिवर्तनं कृत्वा निर्णयः गृहीतः यत् अधुना अध्ययन-अवकाशे गच्छद्भ्यः कर्मचारिभ्यः पूर्णं वेतनं दीयते। वित्तविभागेन केन्द्रीय-सिविल-सेवा-नियमः, १९७२ इत्यस्मिन् संशोधनस्य अधिसूचना प्रसारिता। संशोधनानुसारम् अध्ययन-अवकाश-काले कर्मचारिभ्यः पूर्णं वेतनं, महार्घता-वृत्ति: (DA) गृह-भाटक-वृत्ति: (HRA) च लप्स्यते। यदि कर्मचारिणे छात्रवृत्तिः ‘स्टाइपेण्ड’ वा प्राप्यते, तर्हि तस्य समायोजनं ‘लीव-सैलरी’-मध्ये करिष्यते।
संशोधनं ७ अगस्त २०२४ दिनाङ्कात् प्रभावी मंस्यते। सर्वकारेण ५६-तमे नियमे कृतेन संशोधनानुसारम्, यदि कश्चन कर्मचारी अध्ययनाय विदेशं गच्छति तर्हि तस्मै अवकाशात् पूर्वमेव कार्य-काले (Duty) प्राप्यमाणं पूर्णं अवकाश-वेतनं दास्यते। अनेन सह नियमानुसारं महार्घता-वृत्ति: गृह-भाटक-वृत्ति: च अपि लप्स्यते। एषा एव व्यवस्था देशस्य अभ्यन्तरे अध्ययन-अवकाशे गच्छतां कर्मचारिणाम् उपरि अपि प्रवर्तिता भविष्यति।
