कुमामोटो-प्रान्ते ७.१ तीव्रतायाः शक्तिशाली भूकम्पः, सुनामी-चेतावनी च निर्गता
टोक्यो। मङ्गलवासरे जापानदेशस्य दक्षिण-पश्चिम-क्यूशू-क्षेत्रस्य कुमामोटो-प्रान्ते ७.१ तीव्रतायाः शक्तिशाली भूकम्पः आगतः। जापान-देशस्य भूकम्पीय-तीव्रता-मापने अस्य तीव्रता अधिकतम-स्तरे ‘शिन्दो-७’ इति अङ्किता। तदनन्तरम् ऋतु-विज्ञान-संस्थया अरियाके-यात्सुशिरो-सागरयोः तटीय-क्षेत्रेभ्यः सुनामी-चेतावनीं निर्गम्य जनाः समुद्रतटेभ्यः दूरे तिष्ठेयुः इति प्रार्थना कृता।
जापान-ऋतु-विज्ञान-संस्थानस्य अनुसारं, भूकम्पात् झटिति परमेव एतेषु समुद्री-क्षेत्रेषु सुनामी-तरङ्गस्य प्रथमप्रहारस्य सम्भावना व्यक्ता कृता, अग्रे अपि अन्यासाम् वीचीनाम् (तरङ्गाणाम्) आगमनस्य शङ्का अस्ति। यात्सुशिरो, उटो, माशिकी, मिसातो तथा कुमामोटो-नगरस्य मिनामी-वर्गे शिन्दो-मापके तीव्रता-६ (तीव्राः) प्रकम्पनानि अनुभूतानि, जबकि कुमामोटो-प्रदेशस्य अन्यभागेषु तथा नागासाकी, कागोशिमा, फुकुओका, सागा, मियाजाकी-प्रान्तेषु अपि तीव्राः कम्पनाः अङ्किताः।
स्थानीय-प्रसारमाध्यमानाम् अनुसारम्, भूकम्पस्य केन्द्रं कुमामोटो-नगरस्य दक्षिणदिशि स्थितस्य उकी-नगरस्य समीपे १० किलोमीटर-गभीरतायाम् आसीत्। क्यूशू-इलेक्ट्रिक-संस्थया उक्तं यत् भूकम्पानन्तरं कुमामोटो-प्रान्ते प्रायः ४५,६०० गृहेषु विद्युत्-आपूर्तिः बाधिता अभवत्। उल्लेखनीयम् अस्ति यत् अप्रैल-२०१६ मे अपि कुमामोटो-क्षेत्रे आगतयोः द्वयोः भीषण-भूकम्पयोः २७८ जनाः मृताः अभवन्, २,८०० तः अधिकाः जनाः व्रणिताः च अभवन्। तयोः भूकम्पयोः कुमामोटो-दुर्गस्य (कैसल) अपि महती क्षतिः अभवत्, यस्य पुनर्निर्माणकार्यम् २०५२ तम-वर्षपर्यन्तं पूर्णं भवितुम् आशा अस्ति।
