भाजपा-दलस्य राज्यसभा-सांसदेन हर्षमहाजनेन सह गृह मन्त्रिणः अमितशाहस्य शिष्टाचारमेलनम्
हिमसंस्कृतवार्ता: – नवदेहली।
भारतीयजनतापार्टीति-दलस्य राज्यसभा-सांसदेन हर्षमहाजनेन संसदभवने स्थिते केन्द्रीय-गृह-मन्त्रिणः अमितशाहस्य कार्यालये तेन सह शिष्टाचारमेलनं कृतम्। अस्मिन् अवसरे हिमाचलप्रदेशस्य वर्तमान-राजनैतिक-आर्थिक-प्रशासनिक-स्थिथीनाम् उपरि विस्तरेण चर्चा अभवत्।
हर्षमहाजनेन उक्तं यत् प्रदेशे काङ्ग्रेस-सर्वकारस्य सङ्घटनानन्तरं वित्तीय-अनुशासनं पूर्णतया समाप्तं जातम्। सर्वकारेण काञ्चिदपि दूरदृष्टिं विना प्रदेशः भारिकस्य ऋणस्य भारे प्रक्षिप्तः। तेन प्रोक्तं यत् काङ्ग्रेस-सर्वकारः अद्यावधि १.१० लक्षकोटि (1.10 लाख करोड़) रूप्यकेभ्यः अधिकं ऋणं गृहीतवान्, किन्तु तथापि प्रदेशे विकासकार्याणि पूर्णतया स्थगितानि सन्ति।
आपदाप्रबन्धने काङ्ग्रेस-सर्वकारः पूर्णतया असफलः
हर्षमहाजनेन कथितं यत् हिमाचलप्रदेशे आपदाप्रबन्धनस्य विषये अपि काङ्ग्रेस-सर्वकारः पूर्णतया असफलः सिद्धः अभवत्। सर्वकारस्य पार्श्वे न कापि पूर्वसज्जता अस्ति न च कापि दृढ़-कार्ययोजना। प्रति-आपदः अनन्तरं काङ्ग्रेस-सर्वकारः केवलं केन्द्रीयसर्वकारस्य उपरि दोषारोपणं कृत्वा स्वकीयाः विफलताः निगोपयितुं (छिपाने का) प्रयास करोति।
तेन उक्तं यत् केन्द्रीयसर्वकारेण समये-समये हिमाचलप्रदेशाय औदार्येण आर्थिकी साहाय्यता उपलब्धा कारिता, किन्तु प्रदेशसर्वकारः तस्याः राशेः अपि प्रभावशालिनं पारदर्शिनं च उपयोगं कर्तुम् असफलः अभवत्। आश्रयवितरणे भेदभावः क्रियमाणः अस्ति।
