शिक्षक-दिवसात् पूर्वं नूतन-परिसर-प्रणाल्याम् भविष्यति निर्णयः, मुख्यमंत्रिण: सुक्खो: बृहती घोषणा
हिमसंस्कृतवार्ता: — शिमला।
हिमाचलप्रदेशस्य मुख्यमन्त्रिणा ठाकुर-सुखविन्दरसिंहसुक्खू महोदयेन प्राथमिक-शिक्षकेभ्यः महतीं साहाय्यतां यच्छता प्रोक्तं यत् शिक्षक-दिवसात् (५ सितम्बर) पूर्वं नूतनायाः परिसर-प्रणाल्याः उपरि सर्वकारः अन्तिमं निर्णयं ग्रहीष्यति। तेन उक्तं यत् सर्वकारः अस्याः व्यवस्थायाः सहानुभूतिपूर्वकं समीक्षां करिष्यति आवश्यकतायां सत्यां च अस्यां परिष्कारं विधातुं निरसनं वा कर्तुं निर्णयं करिष्यति।
रविवासरे शिमलायाः चौड़ा-मैदान-स्थले आयोजितायां ‘प्राथमिक-शिक्षक-सङ्घस्य’ साधारणसभां सम्बोधयता मुख्यमन्त्रिणा कथितं यत् सर्वकारस्य शिक्षक-सङ्घस्य च मध्ये भवितव्ये आगामि-उपवेशने अस्मिन् विषये निष्पक्षः सकारात्मकश्च निर्णयः ग्रहीष्यते।
निलम्बनं, विभागीया अन्वेषणानि, एफ.आई.आर. च निरंस्यन्ते
मुख्यमन्त्रिणा उद्घोषितं यत् प्राथमिक-शिक्षकाणां विरुद्धं कृताः निलम्बन-कार्याविधय:, विभागीयान्वेषणानि, पञ्जीकृताः एफ.आई.आर. (FIR) च प्रत्यावर्तिष्यन्ते। तेन एतदपि स्पष्टीकृतं यत् मुख्याध्यापकानां, केन्द्र-मुख्याध्यापकानां, खण्ड-प्रारम्भिक-शिक्षा-अधिकारिणां च अधिकारेषु कस्यापि प्रकारस्य न्यूनता न भविष्यति। अनेन सह एव प्राथमिक-विद्यालयेषु क्रीड़ा-गतिविधयः पुनः आरब्धुं घोषणा अपि कृता।
जे.बी.टी.-शिक्षकेभ्यः लप्स्यते टी.जी.टी.-पदोन्नतिः
मुख्यमन्त्रिणा प्रोक्तं यत् राज्यसर्वकारः जे.बी.टी. (JBT) शिक्षकेभ्यः टी.जी.टी. (TGT) पदेषु पदोन्नतिं प्रदास्यति। तेन ज्ञापितं यत् शिक्षक-सङ्घस्य प्रतिनिधिभिः सह सचिवालये जाते उपवेशने विविधासु याचनासु विस्तारेण चर्चा कृता अस्ति। तेन शिक्षकेभ्यः विश्वासः प्रदत्तः यत् सर्वकारः तेषां हितानां पूर्णां सुरक्षां विधास्यति शिक्षाव्यवस्थां च सुदृढां कर्तुं तेषां सहयोगेन प्राथमिक-विद्यालयाः राज्यस्य श्रेष्ठतमाः विद्यालयाः विधास्यन्ते।
आङ्ग्ल-माध्यम-सी.बी.एस.ई.-विद्यालयानाम् उपरि अपि अवदत्
मुख्यमन्त्रिणा कथितं यत् प्राथमिक-स्तरे आङ्ग्ल-माध्यमेन पठन-पाठनं पूर्वमेव आरब्धम् अस्ति। अस्मिन् दिशि शिक्षकाणां भूमिकायाः प्रशंसां कुर्वन् तेन उक्तं यत् सी.बी.एस.ई. (CBSE) विद्यालयेषु प्रधानाचार्याणां नियुक्तिः प्रायः पूर्णा संजाता तथा च शिक्षकाणां नियुक्ति-प्रक्रिया अपि निरन्तरा अस्ति।
ओ.पी.एस.-पुनर्स्थापनस्य अपि कृतः उल्लेखः
मुख्यमन्त्रिणा प्रोक्तं यत् सर्वकारेण प्रथमे मन्त्रिमण्डल-उपवेशने १.३६ लक्ष-कर्मचारिणां कृते पुरातन-वृत्ति-योजना (OPS) पुनर्स्थापिता आसीत्। तेन कथितं यत् एषः निर्णयः कर्मचारिणां सम्मानं सम्प्रतीतिं (आर्थिक-सुरक्षां) च ध्यात्वा गृहीतः। तेन उक्तं यत् नूतन-वृत्ति-योजनायाः अन्तर्गतं बहुभ्यः कर्मचारिभ्यः अतीव न्यूना वृत्ति: प्राप्यते स्म, यदा च ओ.पी.एस. प्रवर्तिता तदा अनेकेभ्यः सेवानिवृत्त-कर्मचारिभ्यः श्रेष्ठतरायाः वृत्तिलाभः प्राप्यते।
भाजपा-दलं प्रति व्यङ्ग्यपातं कृतम्
मुख्यमन्त्रिणा कथितं यत् राज्यसर्वकारः हिमाचलस्य अधिकाराणां संसाधनानां च रक्षणाय निरन्तरं सङ्घर्षं करोति। तेन भाजपा-दलं प्रति व्यङ्ग्यपातं कुर्वता आरोपः कृतः यत् पूर्वतनः सर्वकारः प्रदेशस्य उपरि महान्तम् आर्थिकभारं त्यक्त्वा गतः। तेन प्रोक्तं यत् सर्वैः हिमाचलस्य हितानां रक्षणाय एकीभूय कार्यं करणीयं भविष्यति।
