मुख्यमन्त्रिणा सुक्खू-महोदयेन ‘थीमैटिक-गार्डन’-परियोजनायाः शुभारम्भः कृतः, ४ कोटिरूप्यकाणां राशिः अपि प्रसारिता
हिमसंस्कृतवार्ता: — काङ्गड़ा ।मुख्यमन्त्रिणा सुखविन्दरसिंहसुक्खू महोदयेन काङ्गड़ामण्डलस्य देहरास्थे ‘दुर्गेश-अरण्य-अंतरराष्ट्रीय-प्राणी-उद्याने’ विकसिष्यमाणायाः महत्त्वाकाङ्क्षिण्याः ‘थीमैटिक-गार्डन’-परियोजनायाः (Thematic Garden Project) शुभारम्भः कृतः। तत्रैव परियोजनायाः कार्यान्वयनाय ‘हिमाचल-प्रदेश-राज्य-जैव-विविधता-बोर्ड’ इत्यस्य माध्यमेन मुख्य-वन्यजीव-संरक्षकाय, हिमाचलप्रदेशाय ४ कोटिरूप्यकाणां (4 Crore) राशिः अपि प्रसारिता। मुख्यमन्त्रिणा प्रतिपादितं यत् इयं परियोजना हिमाचलस्य समृद्ध-जैव-विविधतायाः संरक्षणेन सह पर्यावरण-शिक्षां, वैज्ञानिक-अनुसन्धानं, पारिस्थितिक-पर्यटनम् (‘ईको-टूरिज्म’) च प्रोत्साहयितुं राज्यसर्वकारस्य कटिबद्धतां दर्शयति।
एतत् ‘थीमैटिक-गार्डन’ प्रायः २२,२४७ वर्गमीटर-क्षेत्रे विकसितं करिष्यते आगन्तुक्यश्च प्रदेशस्य विविधानाम् वनस्पतीनां प्राकृतिक-धरोहराणान जीवन्तं समृद्धं च अनुभवं प्रदास्यति। तेन उक्तं यत् अस्याः परियोजनायाः अन्तर्गतं ‘फिकेरियम’ (Ficarium) विकसितं करिष्यते, यस्मिन् ‘फैकस’ (Ficus) इत्यस्य विविधानां प्रजातीनां प्रदर्शनं विधास्यते तासां च पारिस्थितिकीयं संरक्षण-सम्बन्धी च महत्त्वं रेखाङ्कितं करिष्यते। एतदतिरिच्य, ‘आर्बोरेटम’ (Arboretum) मध्ये देशियानां वैदेशिकीनां च प्रजातीनां वृक्षाणां सङ्ग्रहः करिष्यते, यत् पर्यावरण-संरक्षणं, शिक्षां, वैज्ञानिक-अध्ययनं चोत्साहयिष्यति। परियोजनायाः अन्तर्गतं एकः दृष्टि-स्तम्भः (‘वॉच-टावर’) अपि निर्मास्यते, यतः परितः स्थितानाम् प्राकृतिकानां दृश्यानां अवलोकनं विधातुं शक्ष्यते। एतदतिरिच्य, ‘बैंबूसेटम’ (Bambusetum) मध्ये विविधानां वेणु-प्रजातीनां (बांस) प्रदर्शनं कृत्वा तासां पारिस्थितिकीयाम् आर्थिकीयं च उपयोगितां सतत-विकासे च तासां भूमिकां सूचयिष्यते। मुख्यमन्त्रिणा प्रोक्तं यत् राज्यसर्वकारः हिमाचलस्य समृद्ध-जैव-विविधतायाः संरक्षणं कृत्वा प्रदेशे सतत-विकासं प्रोत्साहयति।
तेन कथितं यत् एतत् ‘थीमैटिक-गार्डन’ संरक्षण-जागरूकतायाः, पर्यावरण-संरक्षणस्य, अनुभवात्मक-शिक्षणस्य, वैज्ञानिक-अनुसन्धानस्य च एकं महत्त्वपूर्णं केन्द्रं भूत्वा उद्भविष्यति। साकमेव एतत् प्रकृति-आधारित-पर्यटनस्य वर्धने अपि महतीं भूमिकां निर्वक्ष्यति। तेन उक्तं यत् अस्याः परियोजनायाः छात्रेभ्यः, शोधकर्तृभ्यः, पर्यटकेभ्यः, प्रकृतिप्रेमिभ्यश्च प्रदेशस्य समृद्ध-जैव-विविधतां अवगन्तुम् एकः उत्कृष्टः मञ्चः प्राप्स्यते। मुख्यमन्त्रिणा राज्य-जैव-विविधता-बोर्डस्य वनविभागस्य च अस्याः महत्त्वाकाङ्क्षि-परियोजनायाः परिकल्पनायै सज्जीकरणानां च कृते तेषां प्रयासानां प्रशंसा कृता। तेन विश्वासः प्रकटितः यत् परियोजनायाः पूर्त्यां सत्याम् अत्र आगच्छद्भ्यः पर्यटकेभ्यः यात्रायाः अनुपमः अनुभवः प्राप्स्यति तथा च इयं परियोजना देशे जैव-विविधता-संरक्षणस्य ‘ईको-टूरिज्म’ इत्यस्य च एकम् आदर्शं केन्द्रं भूत्वा उद्भविष्यति। तेन प्रोक्तं यत् अस्याः परियोजनायाः कार्यान्वयनम् मुख्य-वन्यजीव-संरक्षकेन, हिमाचलप्रदेशेन विधास्यते, यदा च ‘हिमाचल-प्रदेश-राज्य-जैव-विविधता-बोर्ड’ तान्त्रिक-मार्गदर्शनं सहयोगं च प्रदास्यति।
मुख्यमन्त्रिणा सुक्खू-महोदयेन ‘थीमैटिक-गार्डन’-परियोजनायाः शुभारम्भः कृतः, ४ कोटिरूप्यकाणां राशिः अपि प्रसारिता
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
