लाहौल-क्षेत्रे प्रचलन्ति ‘टैक्सी’-वाहने पतितः पर्वतः, नवजातेन सह १३ जनानां कारुणिका मृत्यु:
हिमसंस्कृतवार्ता:- शिमला।हिमाचलप्रदेशस्य लाहौल-स्पीति-मण्डलस्य संसारी- किलाड़- तिन्दी-थिरोट मार्गे शुक्रवासरे अपराह्णे एकं टाटोसूमो ‘टैक्सी’ वाहनं प्रति पर्वतात् बृहती शिला पतिता। अस्मिन् वाहने उपविष्टाः सर्वे १३ जनाः वाहने एव निपीडिताः भूत्वा पञ्चत्वं गताः। कडूनाला-श्योर-क्षेत्रयोः मध्ये गोरना- स्थानस्य समीपे शुक्रवासरे अपराह्णे द्विवादनस्य निकटे एषा दुर्घटना अभवत्। टाटासूमो-वाहने सर्वे अपि जनाः कुल्लूक्षेत्रतः लाहौल-मार्गेण चम्बामण्डलस्य पाङ्गीक्षेत्रं गच्छन्तः आसन्। मार्गस्य अवरोधात् हेतोः गुरुवासरे ते तिन्दी-स्थाने स्थिताः आसन्। शुक्रवासरे यदा मार्गः पुनः सुचारुः अभवत् तदा वाहनं पाङ्गी-दिशि अग्रे सरितम्, परन्तु मार्गे एषा दुर्घटना संजाता। उल्लेखनीयम् अस्ति यत् वाहने उपविष्टः एकः जनः शिलापातात् भयात् दुर्घटनास्थलात् १०० मीटर-पूर्वमेव अवतीर्णाः आसीत्।
चालकः यात्रिणः च असावधानाः एव आसन्, अवसरः अपि न प्राप्तः
आरक्षिभ्यः प्राप्तानुसारात् टाटा-सूमो-वाहने (HP- 01M-2210) चालकेन सह १३ जनाः उपविष्टाः आसन्। शुक्रवासरे यथा एव यात्रिभिः पूर्णं वाहनं तिन्दी-क्षेत्रात् पाङ्गी-दिशि निर्गतं, तदा गोरना-स्थानस्य समीपे अकस्मात् पर्वतात् बह्व्यः शिलाः पतिताः सम्पूर्णं च वाहनं शिलानाम् अधः निमग्नम् अभवत्। दुर्घटना एतावती भीषणिका आसीत् यत् चालकः यात्रिणः च आत्मरक्षणस्य अवसरम् अपि न प्राप्नुवन्, क्षणमात्रे च वाहनं मलिनावशेष-राशौ निमग्नम् अभवत्। घटनायाः सूचनां प्राप्य सद्यः एव मण्डलप्रशासनं, आरक्षिमण्डलं, सीमा-मार्ग-सङ्गठनम् अन्ये च जनाः दुर्घटनास्थले प्राप्ताः युद्धस्तरे च आश्रय- उद्धार- कार्यम् आरब्धम्।
बी.आर.ओ. संस्थायाः यन्त्रैः मलिनावशेष-राशिं अपसार्य वाहनात् सर्वाणि शवानि बहिः निष्कासितानि। आहत्य १३ मृतेषु एका षट्मासीया बालिका अपि सम्मीलिता अस्ति। एतदतिरिच्य दुर्घटनायाम् सप्त पुरुषाः चतस्रः महिलाः च समाविष्टाः सन्ति। अस्मिन् माता-पुत्री, पिता-पुत्रः, पतिः, पत्नी च स्वप्राणान् अत्यजन्। अस्याः कारुणिक- दुर्घटनायाः परं सम्पूर्णे पाङ्गी- उदयपुरक्षेत्रे शोकस्य तरङ्गः अस्ति। लाहौल- स्पीति- मण्डलस्य आरक्षणाधीक्षकः शिवानीमेहला प्रोक्तवती यत् मार्ग-दुर्घटनायां षट्मासीय- बालिकया सह १३ जनानां मृत्युः अभवत्। आरक्षिभ्यः प्राथमिकीं पञ्जीकृत्य अन्वेषणम् आरब्धम्।
मुख्यमंत्री सुक्खू महोदयेन दुर्घटनायां शोकः प्रकटितः, उपायुक्तेन सह दूरभाषे सम्भाषणम्
मुख्यमन्त्रिणा ठाकुर सुखविन्दरसिंहसुक्खुमहोदयेन लाहौल- स्पीति- मण्डलस्य कडूनालाक्षेत्रे अभूतपूर्वायां मार्गदुर्घटनायां १३ जनानां मृत्यौ गभीरः शोकः प्रकटितः। वाहने उपविष्टाः सर्वे यात्रिणः कुल्लूक्षेत्रतः पाङ्गीक्षेत्रं गच्छन्तः आसन्। मुख्यमन्त्रिणा लाहौल-स्पीति-मण्डलस्य उपायुक्तः सद्यः एव दुर्घटनास्थलं प्राप्य आश्रय- उद्धार- कार्याणां निरीक्षणं विधातुं निर्दिष्टः। तेन मृतानां परिवारेभ्यः सर्वसम्भाव्य-साहाय्यं व्रणितानां च कृते श्रेष्ठ-चिकित्सा-सुविधाः उपलब्धं कारयितुं अपि निर्देशाः दत्ताः। तेन व्रणितानां शीघ्र- स्वास्थ्य- लाभाय अपि प्रार्थना कृता। मुख्यमन्त्रिणा ईश्वरात् दिवङ्गतानाम् आत्मनां शान्तये शोकाकुलेभ्यः परिवारेभ्यः च एताम् असहनीयां क्षतिं सोढुं शक्तिं प्रदातुं याचना कृता।
भरमौर-विधायकेन डॉ. जनकराजेन शोकः प्रकटितः
भरमौर-विधानसभा-क्षेत्रस्य विधायकेन डॉ. जनकराजेन पाङ्गी-उदयपुर-मार्गे संजातायां भीषणायां मार्गदुर्घटनायां महद् दुःखं प्रकटितम्। तेन कथितं यत् अस्याः कारुणिक-दुर्घटनया सम्पूर्णः प्रदेशः कम्पितः जातः। प्रारम्भिक- सूचनानुसारं भूस्खलने निमग्ने वाहने उपविष्टेषु १५ जनेषु १३ जनानां मृत्युः अभवत्, येषु षट्मासस्य एकः अबोधः शिशुः अपि सम्मीलितः अस्ति। तत्रैव, द्वयोः जनयोः सुरक्षितत्वस्य सूचना आश्वासयन्ती अस्ति।
डॉ. जनकराजेन दुर्घटनायां प्राणान् त्यक्तवद्भ्यः सर्वभ्यः जनेभ्यः श्रद्धांजलिं समर्प्य शोकसन्तप्तेभ्यः परिवारेभ्यः गभीरा संवेदना प्रकटीकृता। तेन ईश्वरात् दिवङ्गतात्मानां शान्तये परिजनेभ्यश्च एतत् असह्यं दुःखं सोढुं सामर्थ्यं प्रदातुं प्रार्थना कृता। तेन प्रोक्तं यत् दुर्घटनायाः सूचनां प्राप्य एव सः चम्बा- लाहौल- स्पीति- मण्डल- प्रशासनस्य वरिष्ठ- अधिकारिभिः सह निरन्तरं सम्पर्के अस्ति तथा च आश्रय-उद्धार-कार्याणां प्रतिक्षणं सूचनां गृह्णन् अस्ति। प्रभावितेभ्यः परिवारेभ्यः सर्वसम्भाव्यं साहाय्यं प्राप्नुयात्, अस्य कृते प्रशासनेन सह समन्वय: क्रियते।
विधायकेन पार्वत्यक्षेत्रेषु निरन्तरं जायमानानां वृष्टीनां भूस्खलन-घटनानां च दृष्ट्या जनेभ्यः यात्रा-समये विशेषसावधानीं ग्रहीतुं निवेदितम्। तेन कथितं यत् ऋतो: मार्गस्य च स्थितिं ज्ञात्वा एव यात्रां कुर्वन्तु, प्रशासनेन प्रसारितानां दिशानिर्देशानां पूर्णतया पालनं कुर्वन्तु, येन एतादृशीभ्यः दुखदाभ्यः घटनाभ्यः रक्षितुं शक्येत।
लाहौल-क्षेत्रे प्रचलन्ति ‘टैक्सी’-वाहने पतितः पर्वतः, नवजातेन सह १३ जनानां कारुणिका मृत्यु:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
