परीक्षा-अनाचार-रोधनार्थं कठोर-विधेयकस्य मन्त्रिमण्डलेन स्वीकृतिः
केन्द्रीय-मन्त्रिमण्डलेन प्रश्नपत्र-गोप्यताभंग अथ परीक्षा-अनाचार प्रकरणानां द्रुत-न्यायालयानां संस्थापनाय सहैव कठोर दण्डस्य विधानाय एकस्य प्रारूप-विधेयकस्य स्वीकृतिः प्रदत्ता। संसद् भवने प्रधानमन्त्रिणः नरेन्द्र मोदिनः अध्यक्षतायां सम्पन्ने मन्त्रिमण्डलीयोपवेशने अस्य प्रारूप-विधेयकस्य अनुमोदनं कृतम्।
कर्णाटक-आन्ध्र-प्रदेशयोः मध्ये बल्लारी-गुन्तकल-रेल-परियोजनाय अनुमोदनम्
केन्द्रीय-मन्त्रिमण्डलस्य आर्थिक कार्य-समित्या कर्णाटक-आन्ध्रप्रदेश राज्ययोः मध्ये स्थितस्य बल्लारी-गुन्तकल-रेल-खण्डस्य-रेल-पथ-पड्क्तेः निर्माण-प्रस्तावाय स्वीकृतिः प्रख्यापिता। अद्य अपराह्णे नवदेहल्यां प्रसारमाध्यमान् सम्बोधयन् सूचना-तथा-प्रसारण-मन्त्री अश्विनी वैष्णवः अब्रवीत् यत् एषा परियोजना आन्ध्रप्रदेश-कर्णाटक-राज्ययोः मध्ये गमनागमन-सम्पर्क भृशं द्रढयिष्यते। एषा कार्य-योजना ‘प्रधानमन्त्री-गतिशक्ति-राष्ट्रिय-महा-योजनायाः’ आधारेण परिकल्पिता अस्ति, यस्याः मुख्यं लक्ष्यम् तावत् एकीकृत-नियोजनेन तथा हितधारकाणां परामर्शः बहु-माध्यमिक सम्पर्कस्य अथ संभार-दक्षतायाः समभिवृद्धिः अस्ति। एषा परियोजना कर्णाटक-आन्ध्रप्रदेशयोः त्रिणि जनपदानि व्याप्नोति। अस्य बहु-मार्ग निर्माणस्य प्रभावेन प्रायः सप्त-लक्ष-जनसङ्ख्या-युक्तानाम् नवनवति ग्रामाणां सम्पर्क-सुविधा अत्यन्तं सुगमा भविष्यति ।
नीट-प्रश्नपत्र-गोप्यता-विषये नड्डा-जितेन्द्र-सिंहयोः सी.जे.पी-प्रतिनिधिमण्डलेन सह चर्चा
केन्द्रीय-मन्त्री जे.पी. नड्डा डॉ. जितेन्द्र सिंहः चेत्येतौ नवदिल्ली-नगरे सी.जे.पी प्रतिनिधिमण्डलेन सह अमिलताम्। सम्मेलनात् परं वार्ताहरैः सह भाषमाणः श्रीनड्डा अवदत् यत्, उपवेशन-काले तैः परीक्षा प्रणाल्यां परिष्काराणां विषये तैः सी.जे.पी-प्रतिनिधिमण्डलस्य याचनाः धैर्यपूर्वकं श्रुताः, श्रीनड्डा अवोचत् यत् प्रतिनिधिमण्डलेन तिस्रः मुख्याः याचनाः उपस्थापिताः सहैव प्रश्नपत्र-गोप्यता-प्रकटनस्य रोधनाय केचन उपायाः अपि प्रतिपादिताः। केन्द्रीय मन्त्री समेधितवान् यत् सर्वकारः श्वः प्रतिनिधिमण्डलेन सह पुनः द्वितीय चरणस्य वार्ता करिष्यति ।
नीटप्रकरणे कोलाहलेन संसद्-कार्याचरणं सोमवासरं यावत् स्थगितम्
नीट्-प्रश्नपत्र-गोप्यताभङ्गे सहैव छात्राणां विरोध-प्रदर्शनमधिकृत्य अद्य पञ्चम-दिनेऽपि संसदि अविरत-कोलाहलेन उभयोः सदनयोः कार्याचरणं सोमवासरं यावत् स्थगितम् । अपराह्णे द्विवादने द्वितीय-स्थगनात् परं यदा राज्यसभा समवेता, तदा गृह-राज्यमन्त्रिणा नित्यानन्द-रॉयेन षड्विंशत्यधिकद्विसहस्रतमस्य राष्ट्रीय-गौरव-अपमान-निवारण-विधेयकम् उपस्थापितम्। एतत् विधेयकं एकसप्तत्यधिक-एकोनविंशतितमस्य अधिनियमस्य संशोधनार्थम् वर्तते । विधेयकस्य उपस्थापनात् परं विपक्षिणः नीट्-प्रकरणमादाय उच्चैः विरोधोद्घोषान् प्रारभन्त। एतस्य कोलाहलस्य मध्ये उपसभापतिः हरिवंशः सदनस्य कार्याचरणं सोमवासरं यावत् अस्थगयत्। इतः पूर्व प्रातः एकादशवादने यदा राज्यसभायाः कार्याचरणम् आरब्धं तदा सदनं कारगिल-युद्धस्य हुतात्मवीरेभ्यः श्रद्धाञ्जलिं प्रादात्। सभापतिः सी.पी. राधाकृष्णन् प्रावोचत् यत्, कारगिल-विजय-दिवसः नवनवत्यधिक एकोनविंशतितमस्य कारगिल-युद्धे भारतस्य विजयस्य स्मारकं वर्तते। उच्चसदने हुतात्मवीराणां स्मृतौ मौनमपि सन्धृतम्। अपरत्र नीट्-विषये छात्राणां प्रदर्शनं चाधिकृत्य विपक्षस्य विरोधेन लोकसभायाः कार्याचरणमपि सोमवासरं यावत् अपवारितम्। मध्याह्ने द्वादशवादने प्रथमस्थगनात् परं यदा सदनं समवेतम्, तदा संसदीय कार्यमन्त्री किरेन रिजिजुः न्यगादीत् यत् सर्वकारः प्रथम-दिनादेव नीट्-विषये चर्चायै सन्नद्धः । सः प्रावोचत् यत् कांग्रेस-दलेन नूतन-पक्षाश्रयानारोप्य चर्चायां विघ्नः उत्पाद्यते। मन्त्री गदितवान् यत् प्रधानमन्त्री नरेन्द्रमोदी देशम् आश्वस्तवान् यत् अस्मिन् विषये कठोरविधिः आनेष्यते। श्रीरिजिजुः विपक्षनेतारं राहुल-गान्धिनं न्यवेदयत् यत् सः स्व-संसदीय सहयोगिनां मार्गदर्शनं कुर्यात्, येन सदनस्य सञ्चालनं सुचारु रूपेण भवेत् । पीठासीनः अधिकारी जगदम्बिका पालः अवदत् यत् सर्वकारः चर्चायै प्रस्तुतः, विपक्षेण च सहयोगः विधातव्यः। अत्रापि अश्रान्त-कोलाहलेन सदनं सोमवार यावत् निवारितम् । इतः प्राक् प्रातः एकादशवादने यदा लोकसभायाः कार्माचरणम् आरब्धं, तदा सदने कारगिल-युद्ध सर्वोच्च-बलिदानं दत्तवद्भ्यः भारतीय सशस्त्र सेनायाः हुतात्मवीरेभ्यः श्रद्धाञ्जलिः अर्पितः तेषां स्मृतौ च मौनं चापि अवधारितम् ।
संसदसत्रम्- परीक्षा-अनाचार-रोधनार्थं कठोर-विधेयकस्य मन्त्रिमण्डलेन स्वीकृतिः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
