नीट-प्रकरणे कठोरा कार्यविधि: अभवत्, हिमाचलसर्वकारेण प्रश्नपत्र-प्रकटनस्य दोषिणः पुरस्कृताः – जयरामठाकुरः
हिमसंस्कृतवार्ता: – शिमला ।
पूर्वमुख्यमन्त्री विपक्षनेता च जयरामठाकुरः अवदत् यत् केन्द्रीयसर्वकारेण नीट-परीक्षा-अनियमितता-प्रकरणे सद्यः एव कठोरानि पदानि वर्धयित्वा प्रकरणस्य अन्वेषणं सीबीआई (CBI) संस्थायै समर्पितं दोषामिषं च आरक्षकाधीनं (गिरफ्तारी) कृतम्। तेन उक्तं यत् केन्द्रीयसर्वकारेण तादृशाः नियमाः विहिताः, येन भविष्ये एतादृश्याः घटनाः न भवेयुः।
जयरामठाकुरेण शिमलातः प्रसारिते वक्तव्ये आरोपः कृतः यत् अपरतः हिमाचलप्रदेशसर्वकारेण प्रश्नपत्र-प्रकटनस्य (पेपर लीक) प्रकरणे सीबीआई-संस्थायाः पक्षतः उत्तरदायिनः भूता: अधिकारिणः महत्वपूर्णेषु पदेषु नियोजयित्वा पुरस्कृताः। तेन आरोपितं यत् सीबीआई-संस्थायाः पक्षतः कार्यविधे: अनुशंसने कृते सत्यपि अन्वेषणविवरणं निगृहीतम् ।
तेन आरोपः कृतः यत् सद्यः एव आरक्षक-नियुक्ति-परीक्षायाम् (पुलिस भर्ती) अपि प्रश्नपत्र-प्रकटनस्य प्रमाणानि सम्मुखीभूतानि तथा च धनमार्गस्य (मनी ट्रेल) ग्रहोऽपि अभवत्, किन्तु सर्वकारेण प्रकरणम् अस्य निग्रहीतुं प्रयासः कृतः। तेन सामूहिक-वञ्चनायाः (मास चीटिंग) आरोपा: अपि कृताः। तेन उक्तं यत् राहुलगान्धिना यूनां नाम्नि राजनीतिं कर्तुं पूर्वं हिमाचलस्य मुख्यमन्त्रिणः उत्तरं यातव्यं यत् अन्ततः प्रश्नपत्र-प्रकटन-प्रकरणेषु दोषिणां रक्षणस्य प्रयासः किमर्थं कृतः।
तेन आरोपः कृतः यत् काङ्ग्रेस-दलम् नीट-विषये यूनः उद्वेजयित्वा अराजकतां च प्रसारयित्वा राजनैतिकलाभं ग्रहीतुं यतते। तेन आरोपितं यत् देशस्य राजधान्यां दहनं, हिंसां, अराजकतां च प्रसारयित्वा काङ्ग्रेस-दलं केवलं राजनीतिं करोति।
