KANGRA NEWS – भाजपादलस्य सीमादेवी काङ्गड़ाजिलापरिषदः अध्यक्षा, अभिमन्युकँवरः च उपाध्यक्षः
हिमसंस्कृतवार्ता: — धर्मशाला।
काङ्गड़ाजिलापरिषद् स्वकीयौ नूतनौ अध्यक्ष-उपाध्यक्षौ अलभत्। सोमवासरे धर्मशालास्थे जिलापरिषद्-सभागारे विहिते निर्वाचने भाजपादलस्य सीमादेवी सर्वसम्मत्या अध्यक्षा तथा च अभिमन्युकँवरः उपाध्यक्षत्वेन निर्वाचितः। विशेषो विषयः एषः आसीत् यत् द्वाभ्यां पदाभ्यां केवलम् एकम्-एकमेव नामाङ्कनं प्राप्तम्, येन कारणेन सम्पूर्ण-निर्वाचनप्रक्रिया कस्यापि कोलाहलस्य विना निर्विरोधरूपेण सम्पन्ना जाता।
काङ्गड़ामण्डलपरिषदि आहत्य ५४ सदस्याः सन्ति, येषु निर्वाचनप्रक्रियावधौ ३९ सदस्याः सभागारे उपस्थिताः आसन्। एतेषां सदस्यानां उपस्थितौ वार्ड-८ (कल्याड़ा) क्षेत्रतः निर्वाचिता मण्डलपरिषद्-सदस्या सीमादेवी अध्यक्षपदे मुकुटिता कृता। तत्रैव, वार्ड-५३ (शेखुपुरा) क्षेत्रस्य निर्वाचितः सदस्यः अभिमन्युकँवरः सर्वसम्मत्या उपाध्यक्षः घोषितः। विपक्षस्य अन्यस्य वा कस्यापि सदस्यस्य पक्षतः किमपि अधिकारं न उपस्थापितं, येन उभाभ्यां नेतृभ्यां निर्वाचनमार्गः पूर्णतया सुगमः जातः। निर्वाचनप्रक्रियायाः समाप्तौ सद्यः एव उपायुक्त: मण्डल-निर्वाचन-अधिकारी च हेमराजबैरवा महोदयः नवनिर्वाचितायै अध्यक्षायै सीमादेव्यै उपाध्यक्षाय अभिमन्युकँवराय च पदस्य गोपनीयतायाश्च शपथं प्रापयत्। उपायुक्तेन नूतन-दलाय सर्वसदस्येभ्यश्च तेषाम् आगामि-कार्यकालाय शुभकामनाः दत्ताः विकासकार्याणां गतेः प्रदानाय च आशा प्रकटीकृता। अस्मिन् प्रमुखे अवसरे मण्डलपरिषद्-सदस्यैः साकं मण्डलपञ्चायताधिकारी सचिनठाकुरः विविधविभागानां उच्चाधिकारिणः कर्मचारिणश्च विशेषरूपेण उपस्थिताः आसन्।
न आगताः काङ्ग्रेसदलस्य १५ पार्षदाः
मण्डलपरिषद्-निर्वाचनाय आहुतायाः प्रथमाया: एव सभाया: काङ्ग्रेस-समर्थिताः केचन स्वतन्त्राश्च प्रायः १५ मण्डलपरिषद्-सदस्याः उपवेशने न प्राप्ताः। यदा च भाजपादलेन सह बहुशः स्वतन्त्राः मण्डलपरिषद्-सदस्याः अपि भागं स्वीकृत्य सर्वसम्मतिं निर्मितवन्तः।
भाजपादलेन विजयः जनसमर्थनस्य प्रमाणं कथितम्
निर्वाचनप्रभारी विधायकश्च विपिनसिंहपरमारः अस्मिन् विजये मण्डलपरिषद्-सदस्यान् मतदातॄन् च प्रति कृतज्ञतां प्राकटयत्। तेन प्रोक्तं यत् काङ्गड़ाक्षेत्रे भाजपादलेन अध्यक्ष-उपाध्यक्षपदद्वयं निर्विरोधरूपेण जितं, यद् सङ्घटनस्य दृढैकतायाः जनतायाः विश्वासस्य च निदर्शनं वर्तते। परमार महोदयेन पक्ष: कृत: यत् प्रदेशस्य अधिकांश-जिलापरिषत्सु खण्ड-समितिषु च भाजपा-समर्थित-प्रत्याशिनः विजयं प्राप्तवन्तः। तस्यानुसारं पञ्चायत-मण्डलपरिषद्-निर्वाचनानां परिणामैः प्रदेशस्य राजनैतिक-दिशा स्पष्टा विहिता।
परमार महोदयेन काङ्ग्रेससर्वकारः लक्ष्यीकृतः
भाजपानेत्रा विपिनपरमारेण प्रदेशसर्वकारं प्रति प्रहारं कुर्वता कथितं यत् मुख्यमन्त्रिणा दत्तं ‘व्यवस्था-परिवर्तनस्य’ घोषवाक्यं धरातले न दृश्यते। तेन आरोपः कृतः यत् प्रदेशस्य युवकाः, कृषकाः, महिलाश्च सर्वकारस्य नीतिभिः निराशाः सन्ति। विद्युत्-धने आरोपितस्य उपकरस्य (सेस) निःशुल्क-विद्युत्-प्रतिज्ञायाः च सन्दर्भे अपि तेन काङ्ग्रेससर्वकारस्य आलोचना कृता। श्रीपरमारेण उक्तं यत् पञ्चायत-मण्डलपरिषद्-निर्वाचनानां परिणामाः आगामि-विधानसभा-निर्वाचनानां सङ्केताः सन्ति, भाजपा च २०२७ तमे वर्षे प्रदेशे सर्वकार-निर्माणस्य दिशि अग्रे सरति।
सुधीरशर्मा अवदत्, सर्वकारस्य सर्वे प्रयासाः विफलाः जाताः
भाजपाविधायकेन सुधीरशर्मणा अपि दलस्य कार्यकर्तृभ्यः वर्धापनानि (बधाई) वितीर्य कथितं यत् काङ्गड़ामण्डलपरिषदि भाजपादलाय पूर्णं बहुमतं प्राप्तम् अस्ति। तेन आरोपः विहितः यत् प्रदेशसर्वकारेण निर्वाचनप्रक्रिया प्रभाविता कर्तुं निर्वाचनं च स्थगयितुं प्रयासः कृतः, परन्तु स: भाजपादलस्य समर्थनं दुर्बलं कर्तुं नाशक्नोत्। तेन विश्वास: कृत: यत् प्रदेशस्य अधिकांश-मण्डलपरिषत्सु भाजपादलेन अध्यक्ष-उपाध्यक्षपदेषु विजयः प्राप्तः, एतच्च जनतायाः काङ्ग्रेससर्वकारात् मोहभङ्गस्य सङ्केतः वर्तते।
अध्यक्षया सीमाचौधर्या बजट-प्रत्यावर्तनस्य याचना कृता
नवनिर्वाचिता अध्यक्षा सीमाचौधरी भाजपानेतृत्वं मण्डलपरिषद्-सदस्यान् च प्रति आभारं प्रकटयन्ती अवदत् यत् सा पूर्ण-निष्ठया कार्यं विधास्यति। तया कथितं यत् मण्डलपरिषदां वित्तीय-अधिकारः पूर्वतुलनया न्यूनः जातः। तया प्रदेशसर्वकारात् याचना कृता यत् मण्डलपरिषद्-संस्थाभ्यः पूर्ववत् पर्याप्तः आयव्ययकः (बजट) उपलब्धः कारयितव्यः येन ग्रामीणक्षेत्रेषु विकासकार्याणि प्रभावी-रूपेण कर्तुं शक्येरन्।
उपाध्यक्षेण जनसेवाप्राथमिकता प्रकटीकृता
नवनिर्वाचितेन उपाध्यक्षेण अभिमन्युकँवरेण प्रतिपादितं यत् मण्डलपरिषद्-संस्थायाः सर्वे ५४ सदस्याः मिलित्वा मण्डलस्य विकासाय कार्यं करिष्यन्ति। तेन कथितं यत् सामान्यानां जनानां समस्यानां निस्तारणं तस्य प्रथमा प्राथमिकता भविष्यति, स च जनतायाः कृते सर्वदा उपलब्धः स्थास्यति। वर्षाऋतोः (मानसून) उल्लेखं कुर्वन् तेन प्रोक्तं यत् वर्षाकाले कस्यामपि आपदा-स्थितौ मण्डलपरिषद् पूर्णतत्परतया जनानां साहाय्यं विधास्यति।
