गणिते एकपञ्चाशत् (५१) अङ्काः, भारतीयप्रौद्योगिकीसंस्थानम् (IIT), इस्रो (ISRO) च: पवनकुमारचन्दनस्य विस्मयकारिणी कथा
गतप्रातःकाले भारतस्य प्रथमस्य निजीयक्षेत्रे विकसितस्य ‘विक्रम-१’ (Vikram-1) उपग्रहप्रक्षेपकयानस्य सफलप्रक्षेपणं जातम्।
अस्य निर्माणं ‘स्कायरूट एयरोस्पेस’ (Skyroot Aerospace) इति नवोद्यमसंस्थया (Startup) कृतम्, यस्याः संस्थापकाः पूर्वम् ‘इस्रो’ संस्थायाः वैज्ञानिकाः आसन्। प्रधानमंत्री नरेन्द्रमोदी महोदयेन दूरभाषमाध्यमेन संस्थापकाः अभिन्दिताः, उक्तं च– “भवन्तः अन्तरिक्षे न केवलं नूतनवृक्षं रोपितवन्तः, अपितु भूमावपि नूतनानि मूलानि सुदृढानि कृतवन्तः।”
कस्यचित् अन्तरिक्षवैज्ञानिकस्य जीवनकथा गणिते केवलं ५१ अङ्कानां प्राप्त्या आरभ्यते इति प्रायः न श्रूयते। परन्तु पवनकुमारचन्दनस्य कथा अस्मादेव बिन्दोः आरभ्यते। अद्य तेन निर्मितेन ‘विक्रम-१’ प्रक्षेपणयानेन इतिहासः रचितः। एतत् भारतस्य प्रथमं निजीयरूपेण विकसितं यानम् अस्ति यत् अन्तरिक्षं प्राप्नोत्।
अस्याः सफलतायाः पृष्ठतः ‘स्कायरूट एयरोस्पेस’ इति संस्था अस्ति, यस्याः स्थापना पवनेन तथा च तस्य मित्रेण नागा भरत डाका (यः आई.आई.टी. मुम्बई स्नातकः अस्ति) महोदयेन २०१८ तमे वर्षे हैदराबाद-नगरे कृता आसीत्।
इस्रो (ISRO) संस्थायाम् अन्तरिक्षविज्ञानस्य प्रेरणा
हैदराबाद-नगरे एकस्मिन् मध्यमवर्गीयपरिवारे जातः पवनः बाल्यकालादेव यन्त्राणां कार्यपद्धतिं प्रति आकृष्टः आसीत्। यद्यपि प्रारम्भिकशिक्षायां सः गणिते क्लेशम् अनुभवति स्म, तथापि तस्य जिज्ञासा दृढसङ्कल्पश्च तस्य साहाय्यं कृतवन्तौ।
सः प्रथमे एव प्रयासे आई.आई.टी. (IIT Kharagpur) प्रवेशपरीक्षायाम् उत्तीर्णः अभवत्। ततः परं सः भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठने (ISRO) वैज्ञानिकरूपेण नियुक्तः। तत्र सः भारतस्य महान् प्रक्षेपणास्त्रं ‘जी.एस.एल.वी. मार्क-३’ (GSLV Mk III) इति निर्माणे महत्त्वपूर्णं योगदानं दत्तवान्, यस्य कृते सः नवोन्मेष-पुरस्कारेण (Innovation Award) सम्मानितः।
उद्यमिता, नवीनता च
षट् वर्षाणि इस्रो संस्थायां कार्यं कृत्वा पवनस्य मनसि एकः विचारः आगतः– “किं सरकारीपरिधेः बहिः अपि प्रक्षेपणास्त्रं निर्मातुं शक्यते?” ततः सः स्वां वृत्तिं (Job) त्यक्त्वा उद्योगक्षेत्रे पादं न्यधात्। प्रारम्भे धनसङ्ग्रहणं कठिनम् आसीत्, परन्तु फ्लिपकार्ट (Flipkart) संस्थायाः सहसंस्थापकः बिन्नी बंसल महोदयः तस्य विचारे विश्वासं कृत्वा १.५ मिलियन डॉलर्मितं धनं विनियोजितवान्। ततः परं कोरोना-महामारीकालेऽपि ग्रीनको (Greenko) संस्थायाः साहाय्येन एषः प्रवासः अविरतम् अचलत्।
२०२० तमे वर्षे अस्याः संस्थायाः वैज्ञानिकाः प्रथमवारं ‘रामन्-१’ (Raman-1) इति निजीय-इञ्जनस्य सफलं परीक्षणं कृतवन्तः। अन्ततः मे मासस्य ७ दिनाङ्के प्रधानमंत्री नरेन्द्रमोदी महोदयेन भारतस्य विशालतमस्य निजीय-प्रक्षेपणास्त्र-निर्माणशालायाः (Rocket Manufacturing Facility) उद्घाटनं कृतम्, यत्र अद्य सहस्रं (१०००) कर्मचारिणः कार्यं कुर्वन्ति।
पवनकुमारस्य कथा एतदेव ज्ञापयति यत् परीक्षायाः अङ्काः कस्यापि मनुष्यस्य भविष्यं निश्चितं न कुर्वन्ति, अपितु तस्य निरन्तरा जिज्ञासा दृढनिश्चयश्च तं सफलतायाः शिखरं प्रापयतः।
गणिते एकपञ्चाशत् (५१) अङ्काः, भारतीयप्रौद्योगिकीसंस्थानम् (IIT), इस्रो (ISRO) च: पवनकुमारचन्दनस्य विस्मयकारिणी कथा
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
