ओडिशाराज्ये विश्वप्रसिद्धा भगवतः जगन्नाथस्य रथयात्रा आध्यात्मिकोत्साहेन समारब्धा
हिमसंस्कृतवार्ता। ओडिशाराज्यस्य पवित्रायां पुरी-नगर्यां उत्कृष्टाध्यात्मिकोत्साहः वरीवर्ति । विश्वप्रसिद्धा भगवतः जगन्नाथस्य रथयात्रा धार्मिक-विधि-विधानैः अभूतपूर्व-सुरक्षा प्रबन्धैः च सह महता आध्यात्मिकोत्साहेन समारब्धा । गतप्रातःकालादेव तीर्थ-नगर्यां निरन्तरं जायमानां वृष्टिमतीत्य, लक्षाधिकाः श्रद्धालवः अविचलित-श्रद्धया मुख्यमार्गे एतत् पवित्रं दृश्यं साक्षात्कर्तुं उपस्थिताः । जय जगन्नाथ इत्याख्यैः गगनभेदी-जयघोषैः सह भगवान् जगन्नाथः, भगवान् बलभद्रः, देवी सुभद्रा, भगवान् सुदर्शनश्च पूर्ण-विध्यनुसारं स्व-स्व-रथेषु विराजिताः, अनेनैव सह पारम्परिकः पहाण्डी-बिजे इत्ययं कार्यक्रमः सम्पन्नः। अस्य विश्वप्रसिद्ध-महोत्सवस्य सुचारु-सुरक्षित-सञ्चालनाय सार्वत्रिकी सुरक्षा-व्यवस्था, जन-सम्मर्द-प्रबन्धनं सहैव आपत्कालीन-सज्जाः पूर्णरूपेण विहिताः ।
द्रौपदीमुर्मुः उपराष्ट्रपतिः सी. पी. राधाकृष्णन्, प्रधानमन्त्री नरेन्द्र-मोदी च देशवासिभ्यः हार्दान् शुभाशयान् प्रकटितवन्तः
हिमसंस्कृतवार्ता।ओडिशाराज्यस्य पुरी-नगरे भगवतः जगन्नाथस्य पावनी रथयात्रा समाचर्यते। अस्मिन् पुण्यावसरे राष्ट्रपतिपदासीना द्रौपदीमुर्मुः उपराष्ट्रपतिः सी. पी. राधाकृष्णन्, प्रधानमन्त्री नरेन्द्र-मोदी च देशवासिभ्यः हार्दान् शुभाशयान् प्रकटितवन्तः। अवसरेऽस्मिन् एकस्मिन् सन्देशे राष्ट्रपति-महोदया स्वबाल्यकालस्य संस्मरणानि प्रस्तुतवती । उपराष्ट्रपतिना प्रतिपादितं यत्, इयं पावन-रथयात्रा श्रद्धा-भक्ति-समानता-सामूहिक सद्भावानां मूल्यानि प्रदर्शयति । प्रधानमन्त्रिणा नरेन्द्रमोदिनापि अवसरेऽस्मिन् निगदितं यत् इयं रथयात्रा देशस्य शाश्वत-आध्यात्मिक-सांस्कृतिक-न्यायसस्य कश्चन प्रकाशमानः चिह्नो वर्तते ।
ओडिशाराज्ये विश्वप्रसिद्धा भगवतः जगन्नाथस्य रथयात्रा आध्यात्मिकोत्साहेन समारब्धा
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
