रेलमंत्री अश्विनी वैष्णवः उक्तवान् यत् अस्मिन् वर्षे भगवतः जगन्नाथस्य रथयात्रायाः कृते ३०० (त्रिशतात्) अधिकाः विशेषरेलयानानि चालयिष्यन्ते। एतानि नियमितरूपेण प्रचलद्द्भ्यः ८०० (अष्टशतात्) अधिकेभ्यः रेलयानेभ्यः अतिरिक्तानि सन्ति। अद्य नवदहल्यां पत्रकारैः सह सम्भाषणं कुर्वन् श्रीवैष्णवः अवदत् यत् सः आगामिरथयात्रायाः कृते रेलविभागस्य सज्जानां समीक्षां करिष्यति, येन सुचारुसञ्चालनं श्रद्धालूनां च निर्बाधा यात्रा सुनिश्चिता भवेत्। सः अकथयत् यत् पुरी-रेलस्थानके ३० सहस्र (त्रिंशत्सहस्र) यात्रिणां कृते अस्थायीव्यवस्था करिष्यते।
श्रीवैष्णवः एतदपि सूचितवान् यत् रेलविभागः अस्मिन् वर्षे ओणम-उत्सवस्य अवसरे १०० (शतात्) अधिकाः विशेषरेलयानानि चालयिष्यति।
जगन्नाथस्य रथयात्रायाः कृते ३०० (त्रिशतात्) अधिकाः विशेषरेलयानानि चालयिष्यन्ते-रेलमन्त्री
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
