भाजपा-दलस्य मिथ्याप्रचारस्य प्रखर-उत्तरं दास्यति काङ्ग्रेसदलम्, २०२७ तमे वर्षे भाजपा-विधायकानां सङ्ख्या भूयः न्यूनीभविष्यति – मुख्यमंत्री सुक्खुः
हिमसंस्कृतवार्ता: — शिमला ।
एकदिवसीय-देहली-प्रवासात् हिमाचलं प्रत्यागतः प्रदेशमुख्यमन्त्री सुखविन्दरसिंहसुक्खूः अवदत् यत् भारतीयजनतापक्षः (भाजपा) २०२७ तमे वर्षे सत्तायां न आगमिष्यति तेषां विधायकानां सङ्ख्या अपि भूयः न्यूनीभविष्यति। मुख्यमन्त्रिणा कथितं यत् काङ्ग्रेसदलेन राज्ये भारतीयजनतापक्षस्य मिथ्याप्रचारस्य कथं प्रखर-उत्तरं दातव्यम्, अस्मिन् सन्दर्भे प्रदेशाध्यक्षेण विनयकुमारेण एषा दलस्य उपवेशनप्रक्रिया आहूता अस्ति। मुख्यमन्त्रिणा शिमला-स्थित-राजीवभवने काङ्ग्रेसदलस्य राज्यस्तरीय-उपवेशनकाले माध्यमैः (मीडिया) साकं सम्भाषणे प्रतिपादितं यत् काङ्ग्रेसस्य नूतन-प्रदेशाध्यक्षेण साकं सर्वेषु मण्डलेषु नूतनकार्यकारिण्याः सङ्घटनं संजातम् अस्ति। काङ्ग्रेसदलस्य सामान्यसभायां (जनरल हाउस) राज्यस्य सर्वेभ्यः मण्डलेभ्यः अध्यक्षाः, मन्त्रिणः, सर्वे खण्ड-अध्यक्षाश्च सम्मिलिताः अभवन्। भाजपादलस्य ‘मिशन रिपीट’ इति विषये पृष्टस्य प्रश्नस्य उत्तरे मुख्यमंत्री सुक्खुः महोदयेन उक्तं यत् कोऽपि मिशन-रिपीट् न भवति, एतत् सर्वं जनता एव निर्धारयति।
दलाभ्यन्तरे वैचारिकभिन्नता अस्ति, मनोमालिन्यम् नास्ति
दलस्य आन्तरिकभागे बागवानीमन्त्रिणा जगत्सिंहनेगिना उत्थापितस्य प्रश्नस्य उपरि मुख्यमन्त्रिणा प्रोक्तं यत् काङ्ग्रेसदले कोऽपि मनोमालिन्यम् नास्ति। जगत्सिंहनेगी मन्त्री वर्तते। तेन स्वकीयाः केचन विचाराः उपस्थापिताः। राष्ट्रियस्तरे महासचिवः अस्ति। तेन कथितं यत् विचारेषु भिन्नता भवति, मनोमालिन्यम् न भवति। निश्चितरूपेण तेन सह उपविश्य वार्ता विधास्यते। अस्मिन् सन्दर्भे रणनीतिः सज्जीकरिष्यते। तेन स्पष्टीकृतं यत् मन्त्रिणा उच्चाधिकारिणाम् (आलाकमान) उपरि प्रश्नाः न उत्थापिताः, तेन केवलं स्वविचाराः प्रकटीकृताः। मन्त्रिमण्डलविस्तारविषये मुख्यमन्त्रिणा कथितं यत् मन्त्रिमण्डलविस्तारः भवितव्यः एव, परन्तु एषः विस्तारः कदा भविष्यति, एतत् उच्चाधिकारिणः (हाईकमान) एव निश्चितं कुर्वन्ति। मुख्यमंत्री. महोदयेन उक्तं यत् राज्यमन्त्रिमण्डलस्य एकं पदं रिक्तं वर्तते, तस्य पूरणम् अपि आवश्यकम् अस्ति। १६ तथा १७ दिनाङ्कयोः अस्माकं राजनैतिकविषयसमितिः (‘पॉलिटिकल अफेयर कमेटी’) इत्यस्याः उपवेशनं वर्तते। यदि वातावरणं स्वच्छं स्थास्यति, तदैव उपवेशनं सुनिश्चितं विधास्यामः।
धनचौर्यं कुर्वन्तः न क्षन्तव्याः
राममन्दिरस्य धनसङ्ग्रह-चौर्यप्रकरणे (चढ़ावा चोरी के मामले पर) मुख्यमन्त्रिणा प्रतिपादितं यत् एषः अतीव गम्भीरः विषयः अस्ति। श्रीरामः अस्माकम् आराध्यः अस्ति। यदा राममन्दिरस्य प्राणप्रतिष्ठा अभवत्, तदा अस्माकं सर्वकारेण पूर्णदिवसस्य अवकाशः घोषितः आसीत्। एतत् निश्चितरूपेण निन्दनीयं वर्तते, अस्माकं दलस्य च मान्यता अस्ति यत् भगवतः नाम्ना धनचौर्यं कुर्वन्तः जनाः कदापि न क्षन्तव्याः ।
