HP WEATHER – किन्नौरे मेघविस्फोटः, पादसेतुः प्रवाहितः; लाहौले पाषाणघातेन एचआरटीसी-परिचालकस्य मृत्युः
हिमसंस्कृतवार्ता: – शिमला।
हिमाचलप्रदेशे ऋतुविज्ञानविभागस्य ‘ऑरेंज अलर्ट’ इत्यस्य मध्ये गुरुवासरे किन्नौर-जनपदस्य भावा-घाटी-क्षेत्रे मेघविस्फोटः अभवत्। मेघविस्फोटजन्येन प्लावेन एकः पादसेतुः प्रवाहितः। अपरतः लाहौलस्य मयाड़-घाटी-क्षेत्रे पर्वतात् पाषाणपतनेन राज्य-पथ-परिवहन-निगमस्य (एचआरटीसी) बस-परिचालकस्य मृत्युः संजाता। गुरुवासरे अपि चम्बा, कुल्लू, हमीरपुर, सोलनम् च जनपदानां कतिपयेषु क्षेत्रेषु वृष्टिः अभवत्, यदा तु राजधान्यां शिमलायां बिन्दुपातः (बूंदाबांदी) जातः। ऊना, काङ्गड़ा-सहितेषु अन्यजनपदेषु ऋतुः सामान्यः आसीत्। किन्नौर-जनपदस्य शांगो-पञ्चायतस्य सुरचो-क्षेत्रे प्रातः सहसैव मेघविस्फोटः अभवत्। अनेन शांगो-खड्डे जलप्लावनं जातं तत्र निर्मितः सेतुः च प्रवाहितः। सेतोः प्रवाहात् दुतरंग-कानगारंग-ग्रामयोः सम्पर्कः विच्छिन्नः जातः। प्लावनस्य जलं क्षेत्रेषु प्रविष्टं येन सस्यानां (फसलों) महती हानिः अभवत्।
लियूडांधार-क्षेत्रे अवरुद्धाः २४ भक्ताः सुरक्षिताः निष्कासिताः
अन्यतः, लाहौलस्य मयाड़-घाटी-क्षेत्रस्य धोंदल-नाले प्रातःकाले पर्वतात् पतितस्य पाषाणस्य आघातेन एचआरटीसी-बस-परिचालकस्य मण्डी-निवासिनः ज्ञानसिंहस्य मृत्युः अभवत्। इयं बस-वाहिनी करपट-ग्रामात् प्रत्यागच्छन्ती आसीत्। चम्बा-जनपदे बुधवासररात्रितः गुरुवासरमध्याह्नपर्यन्तं वृष्टिः निरन्तरं प्राचलत्। तथापि वृष्ट्या कस्यापि महतः विनाशस्य सूचना नास्ति। भरमौरस्य बड़ग्राम-पञ्चायतस्य लियूडांधार-क्षेत्रे अवरुद्धाः २४ भक्ताः (श्रद्धालु) सुरक्षिताः बहिः निष्कासिताः। एते भक्ताः ३० जून-दिनाङ्कतः तत्रैव अवरुद्धाः आसन्। रक्षकदलेन रज्जु-सहायेन भक्ताः सुरक्षितं उपनदात् पारं कारिताः। कुल्लू-क्षेत्रे निरन्तरं द्वितीये दिनेऽपि वर्षाक्रमः प्रचलति स्म। बहुषु क्षेत्रेषु जनजीवने प्रभाविते सति जनानां कष्टाणि वर्धितानि।
सार्धद्वितलस्य गृहस्य उपरि पतितः विशालः पाषाणः
अपरतः, बंजार-क्षेत्रस्य चकुरठा-ग्रामे भूस्खलनकारणात् एकस्य सार्धद्वितलमस्य गृहस्य उपरि विशालः पाषाणः अपतत्, येन गृहस्य महती क्षतिः अभवत्। अत्र जनधनहानिः न संजाता। रोहताङ्ग-क्षेत्रेऽपि वृष्टिः अभवत्। राजधान्यां शिमलायां बिन्दुपातः जातः, यदा तु ऊना-जनपदे प्रातःकाले मन्दाः मेघाः छादिताः आसन्। अपराह्णात् परं प्रखर-उष्मणा (उमस भरी गर्मी) जनाः समस्यानां सम्मुखीचक्रुः। गुरुवासरसायङ्कालपर्यन्तं प्रदेशे ४९ मार्गाः, ४२ विद्युत्-परिवर्तकाः (ट्रांसफार्मर) च निष्क्रियाः आसन्। काङ्गड़ा-नगरे प्रातः मेघाः छादिताः, तदनन्तरं आदिनं ऋतु: स्वच्छः आसीत्, आतपः (धूप) च प्रखरः आसीत्। स्वच्छवातावरणे सति तापमानेऽपि वृद्धिः जाता, जनाः च उष्मणः अनुभूतवन्तः।
काङ्गड़ा-मण्ड्योः तीव्रवृष्टेः ‘नारङ्गसचेतना’
शुक्रवासरे काङ्गड़ा-मण्डी-जनपदयोः कतिपयेषु क्षेत्रेषु तीव्रवृष्टेः ‘नारङ्गसचेतना’ (तीव्रसतर्कता) ज्ञापिता अस्ति। शिमला, कुल्लू, ऊना, सिरमौर: च जनपदानां कृते पीतसतर्कता उद्घोषिता। प्रदेशस्य अन्येषु जनपदेषु अपि वृष्टेः सम्भावना वर्तते, किन्तु कापि सचेतना न दत्ता। जुलाई मासस्य चतुर्थे दिनाङ्के कुल्लू, मण्डी, शिमला, सिरमौर: च जनपदानां कृते पीतसतर्कता ‘ घोषितम् अस्ति। जुलाई मासस्य पञ्चम-षष्ठ-दिनाङ्कयोः अपि कतिपयेषां जनपदानां कृते वृष्टेः पीतसतर्कता’ प्रसारिता अस्ति।
