राष्ट्रपति: द्रौपदीमुर्मुः नवदेहल्यां राष्ट्रपतिभवने शौर्यपुरस्कारान् प्रदत्तवती
हिमसंस्कृतवार्ता। नवदिल्ल्यां राष्ट्रपतिभवने षड्विंशत्यधिक-द्विसहस्रतम-वर्षस्य द्वितीय-रक्षा-अलंकरण-समारोहे राष्ट्रपतिः द्रौपदी मुर्मु-वर्या शौर्यपुरस्कारान् प्रदत्तवती। शौर्य पुरस्काराः रक्षासैन्य-बालानां, केन्द्रीय-सशस्त्र-आरक्षक-बलानां, राज्य-केन्द्र-शासित-आरक्षकाणां कार्मिकाणां च कृते प्रदीयन्ते। एते पुरस्काराः सशस्त्र बलानां, केन्द्रीय सशस्त्र-आरक्षि-बलानां, अन्य-सुरक्षा-अभिकरणानां च कार्मिकाणां असाधारण-शौर्य-कार्यान् उद्दिश्य दीयन्ते।
एयर मार्शल तरुण चौधरी, लेफ्टिनेण्ट् जनरल नीरज वार्ष्णेयः, लेफ्टिनेण्ट् जनरल् विकास् रोहेला, लेफ्टिनेण्ट जनरल हरविन्दर सिंह वन्द्रा, लेफ्टिनेण्ट जनरल मोहिन्दर पाल सिंह: च अति-विशिष्ट-सेवा-पदकम् प्राप्तवन्तः । उपराष्ट्रपतिः सी. पी. राधाकृष्णन् वर्यः, रक्षामंत्री राजनाथसिंहः, अन्ये केन्द्रीयमन्त्रिणः, सशस्त्रसेनायाः वरिष्ठाः अधिकारिणः च अस्मिन् अवसरे उपस्थिताः आसन्। राष्ट्रपतिः मुर्मुः वर्या इतः पूर्वम् अस्मिन् मासे अष्ट दिनाङ्के राष्ट्रपतिभवने रक्षा-अलंकरण-समारोहे प्रथम चरणस्य शौर्यपुरस्कारान् प्रदत्तवती ।
राष्ट्रपति: द्रौपदीमुर्मुः नवदेहल्यां राष्ट्रपतिभवने शौर्यपुरस्कारान् प्रदत्तवती
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
