श्रद्धालूनां कृते आवश्यकी वार्ता: किन्नौर-कैलाश-यात्रा अधुना स्थगिता
हिमसंस्कृतवार्ता: — किन्नौर:। तीर्थयात्रिणां सुरक्षां सर्वोपरि-प्राथमिकतां मत्वा मण्डलप्रशासनेन किन्नौर-कैलाश-यात्रा २०२६ आगाम्यादेशं यावत् स्थगिता। यात्राशृङ्खलायां हिमनदानां (ग्लेशियर), अस्थिरशैलानां, भूस्खलनस्य च वर्धमानं सङ्कटं दृष्ट्वा एषः निर्णयः गृहीतः। प्रशासनेन अयं निर्णयः विशेष-अन्वेषणचमोः (टोही दल) प्रतिवेदनस्य आधारेण विहितः।
मन्त्रिणः उपवेशनोत्तरं कृतं मार्गस्य निरीक्षणम्
१२ जून् दिनाङ्के राजस्व-उद्यानकृषि-जनजातीयविकास-जनशिकायतनिवारणमन्त्रिणः जगत्सिंहनेगिनः अध्यक्षतायाम् आयोजिते उच्चस्तरीय-उपवेशने यात्राशृङ्खलायाः सुरक्षायाः समीक्षा कृता आसीत्। उपवेशनोत्तरं मार्गस्य स्थितेः आकलनं कर्तुं वनविभागस्य स्थानीयप्रशासनस्य च निरीक्षणे कस्याश्चित् विशेष-अन्वेषणदलस्य सङ्घटनम् विहितम्। दलेन २१ जून् दिनाङ्के यात्राशृङ्खलायाः विस्तृतं निरीक्षणं कृतम्।
अन्वेषणदलेन सूचिताः बहवः गम्भीराः सङ्कटाः
प्रतिवेदनानुसारं ‘मिलिंग खाटा’ स्थानात् शिवलिंगं यावत् बृहन्तः हिमनदाः (ग्लेशियर) तेषाम् उपरि च अस्थिरशैलाः विद्यन्ते। गुफायाः सोरङ्ग-क्षेत्रस्य मध्ये बहुषु स्थानेषु शैलानां पतनेन मार्गः बाधितः असुरक्षितश्च जातः अस्ति। निरन्तरं वर्धमानेन तापमानेन हिमः तीव्रगत्या विलीनः (पिघल) भवति, येन भूस्खलनस्य शैलपतनस्य च भयं भूयः प्रवृद्धम्। ‘मिलिंग खाटा’ स्थानात् पवित्रगुफां यावत् सम्पूर्णः मार्गः अत्यधिक-जोखिमयुक्तः मन्यते।
सुरक्षां वीक्ष्य यात्रायां प्रतिबन्धः
प्रशासनस्य कथनं वर्तते यत् वर्तमानपरिस्थितिसु यात्रायाः आरम्भः श्रद्धालूनां रक्षकदलानां च कृते सङ्कटपूर्णः भवितुं शक्नोति। अतः यात्रा आगाम्यादेशं यावत् स्थगिता वर्तते। मार्गस्य सुरक्षितघोषणायाः परमेव यात्राप्रारम्भस्य उपरि निर्णयः ग्रहीष्यते।
श्रद्धालुभ्य: प्रार्थना
उपायुक्तेन डॉ. अमितकुमारशर्मणा श्रद्धालवः प्रार्थिताः यत् ते स्वसुरक्षां ध्यात्वा आगाम्यादेशं यावत् किन्नौर-कैलाश-यात्रां प्रति न गच्छेयुः, प्रशासनस्य च निर्देशाणाम् अनुपालनं कुर्युः।
श्रद्धालूनां कृते आवश्यकी वार्ता: किन्नौर-कैलाश-यात्रा अधुना स्थगिता
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
