कृषिमन्त्री शिवराजसिंहचौहानः लखनऊ इत्यत्र ‘क्लीन प्लाण्ट सेण्टर’ (स्वच्छ-सस्य-केन्द्रम्) स्थापयितुं उद्घोषणां कृतवान्
हिमसंस्कृतवार्ता। केन्द्रीय-कृषि-कृषककल्याण-ग्रामीणविकासमन्त्री शिवराजसिंहचौहानः उत्तरप्रदेशे उद्यानपालनक्षेत्रस्य (बागवानी) विकासाय लखनऊनगरे एकं ‘क्लीन प्लाण्ट सेण्टर’ (स्वच्छ-सस्य-केन्द्रम्) स्थापयितुं उद्घोषणां कृतवान्। अस्य केन्द्रस्य माध्यमेन कृषकेभ्यः उच्चगुणवत्तायुक्ताः रोगमुक्ताः च पादपसामग्र्यः (पौधे) प्रदास्यन्ते। अनेन उद्यानपालनकृषेः विस्तारः भविष्यति, कृषकाणाम् आयवर्धने च साहाय्यं मिलिष्यति।लखनऊ योजनाभवने मुख्यमन्त्री योगी आदित्यनाथः केन्द्रीयमन्त्री शिवराजसिंहचौहानः च राज्यस्य कृषियोजनानां, केन्द्र-राज्यसर्वकारयोः विविधानां योजनानां क्रियान्वयनस्य तथा ग्रामीणविकासकार्यक्रमाणां समीक्षां कृतवन्तौ। अस्मिन् उपवेशने केन्द्र-राज्यसर्वकारयोः वरिष्ठाः अधिकारिणः अपि उपस्थिताः आसन्। अस्मिन् अवसरे श्रीचौहानः चणक-मसूर-सर्षपाणां (चना, मसूर और सरसों) सर्वकारीय-क्रयण-अवधेः (सरकारी खरीद अवधि) वर्धनाय स्वीकृतिं दत्तवान्, अस्य स्वीकृतिपत्रं च मुख्यमन्त्रिणे योगी आदित्यनाथाय समर्पितवान्।केन्द्रीयमन्त्री प्रधानमन्त्री आवास योजना-ग्रामीण इत्यस्य अग्रिमचरणाय ६ लक्ष १८ सहस्र ४८२ योग्यानां लाभार्थिनां सूचीम् अपि मुख्यमन्त्रिणे दत्तवान्।श्रीचौहानः आगामी जुलाईमासस्य प्रथमदिनाङ्कतः प्रवृत्तायाः अर्थात् ‘विकसित भारत जी-राम-जी’ योजनायाः प्रभावशालिनि समये च क्रियान्वयने बलं दत्तवान्। सः प्रलम्बितस्य मनरेगा-धनराशेः भुगतानस्य निस्तारणाय केन्द्रसर्वकारं प्रति शीघ्रमेव प्रस्तावं प्रेषयितुं निर्देशं दत्तवान्।उपवेशने उत्तरप्रदेशस्य कृषिक्षेत्रे ‘अल्-नीनो’ (Al-Nino) इत्यस्य सम्भावितप्रभावाणाम् उपरि अपि चर्चा अभवत्। कृषकाणां हितानां रक्षणाय जलसंरक्षणं, शस्यप्रबन्धनं (फसल प्रबंधन), जलवायु-अनुकूल-कृषिः तथा आपत्कालीनयोजना निर्माणं च अधिकृत्य बलं दत्तम्।
कृषिमन्त्री शिवराजसिंहचौहानः लखनऊ इत्यत्र ‘क्लीन प्लाण्ट सेण्टर’ (स्वच्छ-सस्य-केन्द्रम्) स्थापयितुं उद्घोषणां कृतवान्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
