अल्पसङ्ख्यक-कार्य-मन्त्री किरेन रिजिजू महोदयः एन.एम.डी.एफ.सी-लाभार्थिभिः सह संवादं कृतवान्
हिमसंस्कृतवार्ता। अल्पसङ्ख्यक-कार्य-मन्त्री किरेन रिजिजू महोदयः दक्षिण-गोआ-राज्ये आयोजितस्य एकस्य विशेष-जनसम्पर्क-कार्यक्रमस्य अवसरे राष्ट्रीय-अल्पसङ्ख्यक-विकास-एवं-वित्त-निगमस्य (एन.एम.डी.एफ.सी) लाभार्थिभिः सह चर्चां कृतवान्। सभाम् सम्बोधयन् श्रीरिजिजू महोदयः अल्पसङ्ख्यक-समुदायानाम् कल्याणाथं सशक्तीकरणाय च अल्पसङ्ख्यक-कार्य-मन्त्रालयस्य प्रतिबद्धतां पुनः प्रकटितवान्। सः सूचितवान् यत् एन.एम.डी.एफ.सी-संस्थायाः कार्यक्रमाः कौशल-विकासं, उद्यमितां, वित्तीय-समावेशनं च वर्धयितुं निर्मिताः सन्ति, येषु युवसु महिलासु च विशेषं ध्यानं दत्तम् अस्ति। गोआ-राज्यस्य आर्थिकस्थितिम् अधिकृत्य केन्द्रीयमन्त्री अवदत् यत् अस्य राज्यस्य प्रतिव्यक्ति-आयः अत्यधिकः अस्ति, यस्य मुख्यकारणं पर्यटनम्, आतिथ्यं, मत्स्यपालनं तथा पूर्वे प्रचालिताः खनन्-गतिविधयः सन्ति। श्रीरिजिजू महोदयः अल्पसङ्ख्यक-कल्याणाय आवंटितस्य धनस्य पर्याप्तं उपयोगं न भवितुं कारणतः चिन्तां व्यक्तवान्। सः महिलासु युवसु च उद्यमितां प्रोत्साहयितुं अधिक-प्रभावि-प्रयासानाम् आवश्यकतायाम् बलं दत्तवान्।रिजिजू महोदयः भारतस्य सांस्कृतिक-विविधतायाः तथा विविधानाम् धार्मिक-समुदायानाम् मध्ये सद्भावं रक्षितुं महत्त्वं च अपि रेखाङ्कितवान्। सः ‘सोशल मीडिया’ (सामाजिक-माध्यम) युगे असत्य-सूचनाभिः ‘फेक न्यूज’ (भ्रामक-समाचार) इत्येताभिः च सह योद्धुं सामूहिक-प्रयासानाम् आह्वानं कृतवान्।
अल्पसङ्ख्यक-कार्य-मन्त्री किरेन रिजिजू महोदयः एन.एम.डी.एफ.सी-लाभार्थिभिः सह संवादं कृतवान्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
