भारत-ब्रिटेन देशयोः व्यापक-आर्थिक-व्यापार-सन्धिः (सीईटीए) जुलाई-मासस्य १५ दिनाङ्कात् प्रभावी भविष्यति, प्रधानमन्त्रिणा मोदिना व्यापारे नूतन-गतेः आशा व्यक्ता
भारत-ब्रिटेन देशयोः मध्ये व्यापकः आर्थिकः व्यापारिकः च सन्धिः (सीईटीए) जुलाई-मासस्य १५ दिनाङ्कात् आरभ्य लागू भविष्यति। अनेन सहैव सामाजिकसुरक्षया सम्बद्धः ‘डबल कंट्रीब्यूशन कन्वेंशन’ (द्विगुण-अंशदान-अभिसमयः) अपि प्रभावी भविष्यति। वाणिज्य-उद्योगमन्त्री पीयूषगोयलः अवदत् यत् अनया सन्धिना भारतीय-निर्यातस्य महत् लाभं भविष्यति। भारतेन ब्रिटेन-देशस्य आपणेषु (बाज़ारेषु) ९९ प्रतिशतं वस्तुषु सद्यः शुल्कमुक्त-प्रवेशः प्राप्स्यते। अनेन वस्त्र-चर्म-सामुद्रिकोत्पाद-अभियान्त्रिकी (इंजीनियरिंग)-प्रसंस्कृतखाद्यक्षेत्रेभ्यः विशेषः लाभः भविष्यति।
प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् भारत-ब्रिटेन देशयोः मध्ये व्यापक-आर्थिक-व्यापार-सम्झौता (सीईटीए) जुलाई-मासस्य १५ दिनाङ्कात् प्रभावी भूत्वा उभयोः देशयोः व्यापारं निवेशं च प्रति नूतनां गतिं प्रदास्यति।सामाजिक-माध्यमे (सोशल मीडिया) एकास्मिन् सन्देशे प्रधानमन्त्रिणा कथितं यत् अनेन सम्झौतेन भारतीयकृषकाणाम्, श्रमिकाणाम्, सूक्ष्म-लघु-मध्यम-उद्यमानां (एमएसएमई), स्टार्टअप्स-नवोन्मेष (नवाचार)-क्षेत्राणां च कृते अनेके नूतनाः अवसराः प्राप्स्यन्ते। सः अपि अवदत् यत् एषः सम्झौता ‘विकसितभारतम्-२०४७’ इति लक्ष्यस्य प्राप्तौ महत्वपूर्णं योगदानं दास्यति।
भारत-ब्रिटेन देशयोः व्यापक-आर्थिक-व्यापार-सन्धिः (सीईटीए) जुलाई-मासस्य १५ दिनाङ्कात् प्रभावी भविष्यति, प्रधानमन्त्रिणा मोदिना व्यापारे नूतन-गतेः आशा व्यक्ता
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
