भारतेन कृतः अफगानिस्तान-दलस्य सम्मार्जनम् (सफाया), शुभमन-ईशानयोः शतकबलेन २-० इति अन्तरेण विजिता शृङ्खला
भारतेन लखनऊ-नगरे क्रीडिते द्वितीये एकदिवसीय-प्रतिस्पर्धायां (वनडे) अफगानिस्तान-दलं १७० धावनाङ्कैः (रन्) पराजित्य त्रयाणां स्पर्धानामं शृङ्खला स्वनाम्नि कृता। प्रथमं क्रीडन् भारतेन ४०२ धावनाङ्काः निर्मिताः। प्रत्युत्तरे अफगानिस्तान-दलम् ४४.३ ओवरेषु २३२ धावनाङ्केषु सर्वमपि क्रीडकं (ऑलआउट) अहारयत्। दारविश रसूली क्षत-कारणात् (चोट) क्रीडाङ्गणं त्यक्तवान् (रिटायर्ड हर्ट) पुनः च क्रीडितुं न प्रत्यागतवान्।भारतपक्षतः अधिनायकेन (कप्तान) शुभमन गिलेन १५४ धावनाङ्कानां तथा ईशान किशनेन १२५ धावनाङ्कानां शतकीय-क्रीडा प्रदर्शिता। उभाभ्यां तृतीय-क्रीडक-स्थानस्य (विकेट) कृते २२४ धावनाङ्काः संमिश्र्य दलं ४०० सङ्ख्यायाः पारं नेतुं महती भूमिका निवर्तिता। कन्दुक-क्षेपणे (गेंदबाजी) अर्शदीप सिंहेन गुरनूर बरारेण च ३-३ क्रीडकाः निष्कासिताः (विकेट झटके)। अफगानिस्तान-दलस्य पक्षतः रहमत शाहेन सर्वाधिकः ७९ धावनाङ्काः रचिताः।
भारतेन कृतः अफगानिस्तान-दलस्य सम्मार्जनम् , शुभमन-ईशानयोः शतकबलेन २-० इति अन्तरेण विजिता शृङ्खला
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
