विश्वपर्यावरणदिवसे प्रशासनेन दिल्ल्यां अष्टादश नमो आक्सीजन पार्क इति उद्यानानि उद्घाटितानि
हिमसंस्कृतवार्ता। पृथिव्यां जीवनस्य संरक्षणाय पर्यावरण-जागरूकतायाश्च संवर्धनार्थं संयुक्त-राष्ट्रपर्यावरण-कार्यक्रमस्य अन्तर्गतं विश्वपर्यावरणदिवसः प्रतिवर्षं आयोज्यते। प्रशासनेन दिल्ल्यां अष्टादश नमो आक्सीजन पार्क इति उद्यानानि उद्घाटितानि । अस्मिन् अवसरे उपराष्ट्रपतिः सी.पी. राधाकृष्णन, प्रधानमन्त्री नरेन्द्र मोदी, गृहमन्त्री अमित शाहः, रक्षामन्त्री राजनाथ सिंहः च देशवासिभ्यः शुभाशंसाः प्रदत्तवन्तः। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् “मातुः नाम्ना एकः वृक्षः” इति अभियानं वनक्षेत्रवृद्धौ महत्त्वपूर्ण योगदानं दत्तवत्। तेन उक्तं यत् अयं दिवसः पर्यावरणसंरक्षणम् सततविकासम् च प्रति अस्माकं प्रतिबद्धतायाः प्रतीकः अस्ति। उपराष्ट्रपतिना उक्तं यत् भारतीयसंस्कृतिः मानवम् प्रकृत्या सह सामञ्जस्येन जीवनं यापयितुं शिक्षयति ।
डॉ. एल. मुरुगनःनवदिल्लीनगरस्य आल इंडिया रेडियो परिसरे “एक पेड़ माँ के नाम” अभियानस्य भागरूपेण एकं वृक्षं रोपितवान्
हिमसंस्कृतवार्ता। सूचनाप्रसारणराज्यमन्त्री डॉ. एल. मुरुगनःनवदिल्लीनगरस्य आल इंडिया रेडियो परिसरे “एक पेड़ माँ के नाम” अभियानस्य भागरूपेण एकं वृक्षं रोपितवान्। आकाशवाण्या सह सम्भाषमाणः डॉ. मुरुगनः नागरिकेभ्यः आह्वानं कृतवान् यत् ते पर्यावरणस्य रक्षणस्य प्रतिज्ञां कुर्वन्तु। सः जलसंरक्षणस्य, वृक्षारोपणस्य, वृक्षाणां रक्षणस्य, संरक्षणस्य च आवश्यकतायाः उपरि बलं दत्तवान् ।
विश्वपर्यावरणदिवसे प्रशासनेन दिल्ल्यां अष्टादश नमो आक्सीजन पार्क इति उद्यानानि उद्घाटितानि
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
