मादकद्रव्यव्यापारे संलिप्तानां १२३ शासकीय- कर्मचारिणां विरुद्धं कार्यविधि:, १७४ ‘चिट्टा’ तस्कराः कारागारं प्रेषिताः- मुख्यमन्त्री सुक्खु:
हिमसंस्कृतवार्ता:- शिमला। मुख्यमंत्री सुखविन्द्रसिंहसुक्खु: शुक्रवासरे रिज- प्राङ्गणे आयोजिते विश्वपर्यावरणदिवसस्य अवसरे सर्ववर्गेभ्यः पर्यावरणसंरक्षणं ‘जनान्दोलनम्’ कर्तुम् आह्वानं कृतवान्। तेन प्रकथितं यत् स्वच्छं जलं, शुद्धा वायुः, वनानि, नद्याश्च इति प्राकृतिकधरोहराः अस्माकं जीवनस्य आधाराः सन्ति, अतः प्रकृतेः एतान् अमूल्योपहारान् सुरक्षितं स्थापयितुम् अस्माकं सर्वेषां सामूहिकम् उत्तरदायित्वं वर्तते। मुख्यमन्त्रिणा प्रतिपादितं यत् हिमाचलप्रदेशः सम्पूर्णोत्तरभारताय स्वच्छजलं शुद्धां वायुं च उपकल्पयितुं प्रमुखां भूमिकां वहति, येन कारणेन एषः ‘लंग्स ऑफ नॉर्थ इंडिया’ (उत्तरभारतस्य फुफ्फुसः) इति उच्यते। सः अवदत् यत् प्रदेशस्य पक्षतः देशाय प्रतिवर्षं प्रायः ९० सहस्रकोटिरूप्यकाणां पारिस्थितिकी-सेवाः (इकोलॉजिकल सर्विसेज) प्रदीयन्ते, परन्तु अस्य विनिमये हिमलाचलाय केन्द्रसर्वकारतः किमपि प्रतिफलं न प्राप्यते।
पर्यावरणसंरक्षणम् अद्यतनसमयस्य महती आवश्यकता- मुख्यमन्त्री
तेन कथितं यत् वर्धमानं वैश्विकतापमानम् (ग्लोबल वार्मिंग), परिवर्तमानम् ऋतुचक्रं, प्राकृतिकविपद् च अस्मभ्यं स्पष्टं सङ्केतं यच्छन्ति यत् पर्यावरणसंरक्षणम् अद्यतनसमयस्य महती आवश्यकता अस्ति। मुख्यमन्त्रिणा संसूचितं यत् वर्ष २०२३ तथा २०२५ मध्ये प्रदेशेन इतिहासस्य भीषणतमाः प्राकृतिकविपदः सम्मुखीकृताः, यैः सहस्रशः परिवाराः प्रभाविताः अभवन्, जनधनस्य च भूरि हानिः संजाता। सर्वकारेण प्रभावितानां परिवाराणां व्रणेषु लेपनं कृतं, प्रत्यकं च कठिने समये सा दृढतया तैः साकम् अतिष्ठत्। वर्ष २०३० पर्यन्तं वनावरणं वर्धयित्वा ३२ प्रतिशत् कर्तुं लक्ष्यं निर्धारितम् अस्ति। ‘मुख्यमंत्री वन विस्तार योजना’ इत्यस्याः अन्तर्गतं बञ्जरपर्वताः हरिद्मयाः क्रियन्ते।
सर्वकारः स्वकीयानां हितानां कृते सङ्घर्षं करोति- सुक्खु:
सुक्खुमहोदयः अवदत् यत् वर्तमान: राज्यसर्वकारः प्रदेशस्य हितानि सर्वोपरि निधाय स्वकीयानाम् अधिकाराणां कृते सङ्घर्षं करोति, नीति- आयोगस्य आगामिनि उपवेशने एते विषयाः केन्द्रसर्वकारस्य सम्मुखं प्रमुखाधारेण उत्थापयिष्यन्ते। प्रदेशे ‘ई- वाहनानि’ (इलेक्ट्रिक व्हीकल्स) प्रोत्साह्यन्ते तथा च शीघ्रमेव हिमाचलपथपरिवहननिगमस्य गणे २९७ नूतनाः ई-बसयानानि सम्मेलयिष्यन्ते। चीड़- वृक्षाणां शुष्कपत्राणाम्, अन्यबायोमासतः ‘बायोचार’ उत्पादनार्थं राज्ये द्वौ बायोचार-संयन्त्रौ संस्थाप्येते।
पञ्चायतस्तरं यावत् ‘चिट्टा’ तस्कराणां नशाव्यापारिणां च संजाता परिचय:
मुख्यमन्त्रिणा प्रतिपादितं यत् राज्यसर्वकारेण ‘चिट्टा’ इत्यादिमादकद्रव्याणां विरुद्धं जन- आन्दोलनं प्रारब्धम्। हिमाचलम् देशस्य प्रथमं राज्यं वर्तते, यत्र पञ्चायतस्तरं यावत् चिट्टातस्कराणां मादकद्रव्यकारोबारीणां च संचिह्नीकरणं विहितम्। सः कठोरशब्देषु अवदत् यत् यदि चिट्टा-माफिया न परिष्करोति, तर्हि तस्य विरुद्धं कठोरतमा कार्यविधि: भविष्यति। सर्वकारेण ‘पीटी-एनडीपीएस’ अधिनियमः प्रभावशालिरूपेण प्रवर्तितः, यस्य अन्तर्गतं १७४ चिट्टातस्कराः कारागारं प्रेषिताः सन्ति, ५१ कोटिरूप्यकाणां सम्पत्तयः गृहीताः। अधुना यावत् ७६ ईदृश्यः सम्पत्तयः च संचिह्निताः, १७ प्रकरणेषु च नशामाफियानां सम्पत्तयः विनष्टाः कृताः।
नशाव्यापारे संलिप्ताः ३१ कर्मचारिणः सेवातः निष्कासिताः
मुख्यमन्त्रिणा स्पष्टीकृतं यत् नशायाः अवैधव्यापारे संलिप्तः कश्चपि जनः न रक्षिष्यते, सः कियान् अपि प्रभावशाली किमर्थं न भवेत्। सम्प्रति यावत् नशाव्यापारे संलिप्तानां १२३ शासकीयकर्मचारिणां विरुद्धं कार्यविधय: कृताः। एतेषु २१ आरक्षक- कर्मचारिभिः (पुलिस कर्मियों) सह ३१ अन्ये कर्मचारिणः सेवातः निष्कासिताः (बर्खास्त) सन्ति। मुख्यमन्त्रिणा जनसमूहः ‘एन्टी-चिट्टा’ (चिट्टा- निषेध) अभियानाय पर्यावरणसंरक्षणाय च शपथं कारितः।
मुख्यमन्त्रिणा प्रदत्ताः पर्यावरण- उत्कृष्टता- पुरस्काराः
मुख्यमन्त्रिणा वर्ष २०२५-२६ कृते पर्यावरणसंरक्षणक्षेत्रे उत्कृष्टकार्यं कृतवद्भिः विभिन्नेभ्यः संस्थानेभ्यः व्यक्तिभ्यश्च ‘पर्यावरण उत्कृष्टता पुरस्कारः’ प्रदत्तः। प्रथमपुरस्काररूपेण ५० सहस्ररूप्यकाणि, स्मृतिचिह्नं, प्रशस्तिपत्रं च तथा द्वितीयपुरस्काररूपेण २५ सहस्ररूप्यकाणि, स्मृतिचिह्नं, प्रशस्तिपत्रं च प्रदत्तम्।
> विद्यालयवर्गे प्रथम:- राजकीय वरिष्ठ माध्यमिक विद्यालय भलेठ (सुजानपुरम् टीहरा, हमीरपुरम्)।
> विद्यालयवर्गे द्वितीयः- राजकीय वरिष्ठ माध्यमिक विद्यालय सरोग (शिमला) तथा पाइनग्रोव स्कूल कसौली (सोलन)।
> शिक्षणसंस्थानवर्गे प्रथमः- सेन्ट बीड्स कॉलेज नवबहार (शिमला)।
> चिकित्सालयवर्गे द्वितीयः- अखिल भारतीय आयुर्विज्ञान संस्थानम् (AIIMS) बिलासपुरम्।
> व्यक्तिगतवर्गे द्वितीयः- ब्लॉक फॉरेस्ट ऑफिसर संतोषकुमारठाकुरः (रिकांगपिओ)।
> उद्योगवर्गे प्रथमः- नेस्ले इण्डिया लिमिटेड (ऊना)।
> उद्योगवर्गे द्वितीयः:- इण्डोरामा इण्डिया प्राइवेट लिमिटेड (बद्दी)।
मादकद्रव्यव्यापारे संलिप्तानां १२३ शासकीय- कर्मचारिणां विरुद्धं कार्यविधि:, १७४ ‘चिट्टा’ तस्कराः कारागारं प्रेषिताः- मुख्यमन्त्री सुक्खु:
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
