मुख्यमन्त्रिणा चिनार-पादपरोपण-अभियानस्य प्रथमचरणस्य कृतः शुभारम्भः
हिमसंस्कृतवार्ता:- शिमला। मुख्यमन्त्री सुखविन्दरसिंहसुक्खु: ‘ओक ओवर शिमला’ इत्यत्र विश्वपर्यावरणदिवसस्य पावन- अवसरे ‘चिनार- पादपरोपण- अभियानस्य’ प्रथमचरणस्य विधिवत् शुभारम्भम् अकरोत्। स्वकीयायै सघनायै छायायै, सौन्दर्याय, पर्यावरणीयमहत्त्वाय च प्रसिद्धः ‘चिनार’ वृक्षः शिमलानगरस्य जलवायु-कृते अतीव अनुकूलः मन्यते। अस्य प्रयासस्य मुख्योद्देश्यं हरितक्षेत्रस्य विस्तार:, पर्यावरणसंरक्षणं प्रति जनचेतनायाः च प्रवर्धनम् अस्ति। अस्मिन् अवसरे मुख्यमन्त्रिणा वानिकी- पर्यावरणप्रबन्धन- पारिस्थितिकीपर्यटन (ईको टूरिज्म) सम्बद्धानां महत्त्वपूर्णानां प्रकाशनानां विमोचनमपि विहितम्। तेन हिमाचलप्रदेशस्य ७५ ईको- टूरिज्म- स्थलानाम् उपरि आधारितायाः ‘कॉफी टेबल बुक’ (चित्रमय-पुस्तिकायाः) विमोचनं कृतम्, यस्यां राज्यस्य प्रमुखाणां पर्यावरणीय- पर्यटनस्थलानाम् आकर्षकः परिचयः प्रस्तुतः अस्ति।
मुख्यमन्त्रिणा अस्मिन् अवसरे उपस्थितान् जनान् सम्बोधयता कथितं यत् एतानि प्रकाशनानि वनविभागस्य अधिकारिणां, कर्मचारिणां, शोधकर्तृणाम्, नीतिनिर्मातृणां तथा च पर्यावरणसंरक्षणे रुचिं प्रदर्शयन्त: सर्वेषां जनानां कृते उपयोगीनि सिद्धाः भविष्यन्ति। सः विश्वासं प्रकटितवान् यत् एतानि पुस्तकानि वनप्रबन्धन- जैवविविधतासंरक्षण- ईकोटूरिज्मक्षेत्रेषु ज्ञानस्य जागरूकतायाः च वर्धने प्रमुखां भूमिकां निर्वक्ष्यन्ति। विश्वपर्यावरणदिवसस्य उपलक्षणे मुख्यमन्त्रिणा राजकीय- वरिष्ठ- माध्यमिक- विद्यालय: पोर्टमोर इत्यस्य छात्रेभ्यः ‘चिल्ड्रन ऑफ द स्टेट’ (राज्यस्य बालकेभ्यः) च पादपाः अपि उपहाररूपेण प्रदत्ताः। अस्मिन् अवसरे विधायकः विनोदसुल्तानपुरी, सुदर्शनबबलू, हरदीपबावा, शिमला-नगरनिगमस्य महापौरः सुरेन्द्रचौहानः, हिमाचलप्रदेशराज्यवनविकासनिगमस्य उपाध्यक्षः के. एस. खाची, एच. पी. सी. सी. महासचिवः विनोद जिंटा, मुख्यसचिवः के. के. पन्तः, प्रधानमुख्य- अरण्यपालः डाॅ. सञ्जयसूदः अन्ये च गण्याः उपस्थिताः आसन्।
मुख्यमन्त्रिणा चिनार-पादपरोपण-अभियानस्य प्रथमचरणस्य कृतः शुभारम्भः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
