नशामुक्तये सामूहिकप्रयासाः आवश्यकाः – राज्यपालः
हिमसंस्कृतवार्ता: – शिमला।विश्वपर्यावरणदिवसे, राज्यपालः कवीन्द्रगुप्तः स्वच्छपर्यावरणाय नशामुक्तहिमाचलाय च सामूहिकरूपेण प्रयासान् कर्तुम् आह्वानं विहितवान्। तेन प्रकथितं यत् हिमाचलप्रदेशः स्वच्छपर्यावरणेन शुद्धवायुना च समृद्धं राज्यं वर्तते। सः आगामिसन्ततीनां हिताय प्रदेशस्य प्राकृतिकधरोहरस्य सौन्दर्यस्य च संरक्षणे बलं दत्तवान्। राज्यपालः अवदत् यत् विकासः कदापि पर्यावरणस्य मूल्येन (कीमत पर) न भवेत्। तेन वर्धमानायाः नशायाः समस्यायाः उपरि चिन्ता प्रकटीकृता, उक्तं च यत् युनः नशापाशात् रक्षितुम् आरक्षकदलं (पुलिस) प्रशंसनीयं कार्यं करोति। मादकद्रव्यस्य विरुद्धं सङ्घर्षः केवलं सर्वकारस्य नास्ति, अपितु समाजस्य प्रत्येकवर्गस्य सामूहिकम् उत्तरदायित्वं वर्तते। यदि सर्वे नागरिकाः मिलित्वा प्रयासान् कुर्युः, तर्हि हिमाचलप्रदेशः पूर्णतः नशामुक्तराज्यं भवितुं शक्नोति। स्वच्छतायाः प्रारम्भः गृहात् भवेत्, एतच्च दैनिकजीवनस्य अभ्यासः करणीयः। स्वच्छजीवनशैल्याः ग्रहणेन स्वस्थ-शाश्वत-समाजस्य निर्माणं सम्भवति। राज्यपालः सर्वान् प्रतिभागिनः स्वच्छता-पर्यावरणसंरक्षण-नशामुक्तजीवनं प्रति समर्पिताः भवितुं शपथं कारितवान्। सः ‘हरित हिमाचल एवं चिट्टा-मुक्त हिमाचल’ इति ‘कैंपेन वॉल’ (अभियान-भित्तिकायाम्) स्वहस्ताक्षरं कृत्वा द्वाभ्याम् अभियानाभ्यां प्रति स्वां प्रतिबद्धतां पुनः प्राकटयत्। अस्मिन् मङ्गलावसरे महापौरः सुरेन्द्रचौहानः, आरक्षकमहानिदेशकः (DGP) अशोकतिवारी, पर्यावरण-विज्ञान-प्रौद्योगिकी-जलवायुपरिवर्तनविभागस्य सचिवः सुशीलकुमारसिङ्गला, जनगणना-सञ्चालन-निदेशिका दीपशिखाशर्मा, वरिष्ठाः अधिकारिणः च उपस्थिताः आसन्।
नशामुक्तये सामूहिकप्रयासाः आवश्यकाः – राज्यपालः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
