धर्मशालां प्राप्तः भारतस्य मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः, गगल-विमानपत्तने कृतवान् अवतरणम्
हिमसंस्कृतवार्ता: – धर्मशाला।
भारतस्य मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः ‘इन्डिगो एयरलाइन्स्’ इति विमानेन गगल-विमानापत्तने स्वपरिवारेण साकं प्राप्तवान्। भारतनिर्वाचन-आयोगस्य माननीयः मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः काङ्गड़ा-चम्बा-जनपदयोः चतुर्दिवसीय-प्रवासे वर्तते। तस्य एषः प्रवासः ०५ जून २०२६ तः ०८ जून २०२६ पर्यन्तं निर्धारितः अस्ति। अस्मिन् अन्तराले सः निर्वाचनसम्बद्धानां विभिन्नानां विधीनां समीक्षां कर्तुं सहैव निर्वाचनकार्याधिकारिभिः, बी.एल.ओ. (BLO), बी.एल.ओ.-पर्यवेक्षकैः तथा अन्यैः सम्बद्धाधिकारिभिः साकं संवादं करोति। स्वप्रवासस्य प्रथमे दिने माननीयः मुख्यनिर्वाचनायुक्तः ‘होटल हयात’ (धर्मकोट, धर्मशाला) इत्यत्र आयोजिते एकस्मिन् संवादकार्यक्रमे मतदानकेन्द्रस्तरीयाधिकारिभिः (बीएलओ), बी.एल.ओ.-पर्यवेक्षकैः तथा निर्वाचनकर्मचारिभिः सह विस्तृतां चर्चाम् अकरोत्। अस्मिन्नावसरे हिमाचलप्रदेशस्य मुख्यनिर्वाचनाधिकारिणी नन्दितागुप्ता, अतिरिक्त-मुख्यनिर्वाचनाधिकारी नीरजचांदला, अतिरिक्त-मुख्यनिर्वाचनाधिकारी मुरारीलालः, उप-मुख्यनिर्वाचनाधिकारी दोरजेठाकुरः तथा जनपद-उपमण्डलस्तरीय-निर्वाचनाधिकारिणः उपस्थिताः आसन्।
स्वकीय-सम्बोधने माननीयः मुख्यनिर्वाचनायुक्तः बी.एल.ओ. तथा बी.एल.ओ.-पर्यवेक्षकाणां भूमिकायाः भृशं प्रशंसां कुर्वन् तान् निर्वाचनतन्त्रस्य आधारशिला इति अवोचत्। तेन प्रतिपादितं यत् मतदातासूच्याः शुद्धतां, विश्वसनीयतां, समावेशितां च निश्चितं कर्तुं बी.एल.ओ.-महोदयानां भूमिका अतीव महत्त्वपूर्णा अस्ति। मुख्यनिर्वाचनायुक्तः ‘विशेष गहन पुनरीक्षण’ (SIR) इत्यस्य महत्त्वे बलं दत्त्वा निर्देशं दत्तवान् यत् अभियानकाले प्रत्येकं पात्रनागरिकं यावत् प्राप्तिः (पहुंच) निश्चिता करणीया। सः विशेषरूपेण तेषां पात्रनागरिकाणां संचिह्नीकरणे (पहचान) पञ्जीकरणे च ध्यानं केन्द्रितुम् अकथयत्, येषां नामानि केनापि कारणेन मतदातासूच्यां अङ्कितानि न अभवन्। तेन संसूचितं यत् एतत् सुनिश्चितं भवेत् यत् कश्चपि पात्रः मतदाता सूच्याः वञ्चितः न स्यात्, नापि कापि अपात्रा प्रविष्टिः सूच्यां सम्मीलिता भवेत्।
संवादकाले बी.एल.ओ.-द्वारा क्षेत्रस्तरे सम्मुखीक्रियमाणानां विभिन्नानां आह्वानानां, विशेषतः नूतनमतदातृणां संचिह्नीकरणस्य, प्रवासिमतदातृणां प्रमाणीकरणस्य (सत्यापन) तथा मतदातासूच्याः अद्यतनीकरणस्य (अपडेट) विषयेषु विमर्शाः कृताः। माननीयः मुख्यनिर्वाचनायुक्तः निर्वाचन-आयोगस्य पक्षतः पूर्णसहयोगस्य आश्वासनं दत्तवान् तथा च सम्बद्धाधिकारिणः आवश्यकाय प्रशिक्षाय व्यवस्थागतसहायतायै च निर्देशितवान्। तेन निर्वाचनकार्ये प्रगत-सूचनाप्रौद्योगिक्याः (IT आधारित प्रणालियों) प्रभावशालि-उपयोगेऽपि बलं दत्तम्, येन पारदर्शिता, कार्यकुशलता, समयबद्धता च निश्चिता भवितुं शक्नुयात्। कार्यक्रमस्य अन्ते माननीयः मुख्यनिर्वाचनायुक्तः निर्वाचनतन्त्रस्य कार्येषु सन्तोषं प्रकटयन् सर्वान् अधिकारिणः कर्मचारिणश्च निष्पक्षां, पारदर्शिनीं, समावेशिनीं च निर्वाचनप्रक्रियां सुनिश्चितं कर्तुं पूर्णसमर्पणेन प्रतिबद्धतया च कार्यं कर्तुम् आह्वानं कृतवान्।
अतः परं मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः मैक्लोडगञ्ज-स्थिते नामग्याल-मठं, ‘सेंट जॉन’ इति चर्च-भवनं, नॉरबुलिंगका-मठं च अभ्रमत्।
धर्मशालां प्राप्तः भारतस्य मुख्यनिर्वाचनायुक्तः ज्ञानेशकुमारः, गगल-विमानपत्तने कृतवान् अवतरणम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
