विश्वपर्यावरणदिवसस्य पूर्वसन्ध्यायां ‘संस्कृतवाङ्मये पर्यावरणचिन्तनम्’ इति विषये राष्ट्रियसङ्गोष्ठ्याः आयोजनम्
विश्वमोहनझा, दरभङ्गा, २ जूनमासः।
ललितनारायणमिथिलाविश्वविद्यालयस्य स्नातकोत्तर-संस्कृतविभागस्य तथा च डॉ. प्रभातदास-फाउण्डेशन-इत्यस्य संयुक्ततत्वावधाने विश्वपर्यावरणदिवसस्य पूर्वसन्ध्यायाम् आगामी-जूनमासस्य ४ दिनाङ्के पूर्वाह्णे सार्ध-एकादशवादने (11:30) एका राष्ट्रियसङ्गोष्ठी आयोजयिष्यते।
इयं सङ्गोष्ठी “संस्कृतवाङ्मये पर्यावरणचिन्तनम्” इति मुख्यविषये स्नातकोत्तर-संस्कृतविभागे प्रचल्यति। अस्मिन् कार्यक्रमे मुख्यवक्तृरूपेण कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयस्य स्नातकोत्तर-वेदविभागस्य पूर्वप्रमुखाः डॉ. विनयकुमारमिश्रमहोद्याः उपस्थास्यन्ति।
आयोजकैः ज्ञापितं यत् अस्यां सङ्गोष्ठ्यां कस्यापि विषयस्य शिक्षकाः, शोधार्थिनः, छात्राश्च निःशुल्करूपेण भागं ग्रहीतुं शक्नुवन्ति। कार्यक्रमस्यास्य मुख्यमुद्देश्यं संस्कृतसाहित्ये निहितस्य पर्यावरणीयचिन्तनस्य तस्य आधुनिकसन्दर्भाणां च उपरि विमर्शं प्रोत्साहयितुमस्ति।
सङ्गोष्ठ्याः रूपरेखां सज्जीकर्तुं संस्कृतविभागाध्यक्षस्य डॉ. कृष्णकान्तझामहोदयस्य अध्यक्षतायाम् एका उपवेशनगोष्ठी आयोजिता। अस्यां गोष्ठ्याम् संयोजकः डॉ. आर. एन. चौरसिया, डॉ. प्रभातदास-फाउण्डेशनस्य सचिवः मुकेशकुमारझा, दर्शनशास्त्रविभागाध्यक्षा डॉ. शिखरवासिनी, शोधार्थी प्रियङ्कासरकारः, कर्मचारिणी मञ्जू अकेला, योगेन्द्रपासवानः, उदयकुमारउदेशः इत्यादयः सदस्याः समुपस्थिताः आसन्।
विश्वपर्यावरणदिवसस्य पूर्वसन्ध्यायां ‘संस्कृतवाङ्मये पर्यावरणचिन्तनम्’ इति विषये राष्ट्रियसङ्गोष्ठ्याः आयोजनम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
