सक्षमाय, उत्तरदायित्वपूर्णाय, नियमानुकूलाय च प्रशासनाय अधिकारिणां प्राप्तं नवीनं ‘सखित्वम्’
हिमसंस्कृतवार्ता, राघवनाथ झा।पाटलिपुत्रम्, २ जूनमासः (ज्येष्ठकृष्णद्वितीया, २०८३ विक्रमीयः)। बिहारसर्वकारस्य सामान्यप्रशासनविभागस्य मुख्यजाञ्चायुक्त-निदेशालयेन प्रकाशितायाः ‘अखिलभारतीयसेवाऽधिकारिणाम् अनिवार्यसहचरः’ इति पुस्तकस्य विमोचनं मङ्गलवासरे मुख्यसचिवालयस्य सभाकक्षे आयोजित-कार्यक्रमे राज्यस्य मुख्यसचिवेन प्रत्यय-अमृतमहोदयेन कृतम्। अस्मिन् अवसरे भारतीयप्रशासनिकसेवायाः अनेके वरिष्ठाः अधिकारिणः उपस्थिताः आसन्। कार्यक्रमस्य शुभारम्भः सामान्यप्रशासनविभागस्य अपरमुख्यसचिवस्य बी. राजेन्द्रमहोदयस्य स्वागतभाषणेन अभवत्। ततः परं महानिदेशक-सह-मुख्यजाञ्चायुक्तः दीपककुमारसिंहः पुस्तकस्य परिचयं ददत् तस्याः उद्देश्यं उपयोगितां च प्राकाशयत्।
तेन प्रतिपादितं यत् एषा पुस्तिका अखिलभारतीयसेवाक्षेत्रे नवयुक्तानां सेवारतानां च अधिकारिणां प्रशिक्षणाय, क्षमतावर्धनार्थं, तथा च अनुशासनिकप्रक्रियाणां प्रभावी-सञ्चालनाय विशेषरूपेण सज्जीकृता अस्ति। अस्यां पुस्तिकायां लोकसेवा-सम्बद्धाः संविधानानुशासनानि, अखिलभारतीयसेवा (अनुशासनं तथा च पुनर्याचना) नियमावली-१९६९ (एकोनसप्तत्युत्तर-एकोनविंशतिशततमीयवर्षीया), अखिलभारतीयसेवा (आचरण) नियमावली-१९६८ (अष्टषष्ट्युत्तर-एकोनविंशतिशततमीयवर्षीया), अभियोजन-स्वीकृति-सम्बद्धाः नियमाः, एकवातायनप्रणाल्याः अन्तर्गतं पुनर्याचना-पुनरीक्षणादिभिः सम्बद्धाः नवीनाः परिपत्राः, प्रमुखाः न्यायिकनिर्णयाः च संकलिताः सन्ति।मुख्यसचिवः प्रत्यय-अमृतः पुस्तकस्य विमोचनं कुर्वन् इमां प्रशासनिक-अधिकारिणां कृते एकं महत्त्वपूर्णं सन्दर्भग्रन्थं न्यरूपयत्। तेन उक्तं यत् एषः सङ्ग्रहः अधिकारिणां सेवाधर्माणां, अनुशासनिकप्रक्रियाणां, प्रशासनिकनिर्णयानां च अवबोधने महदाधारः भविष्यति। मुख्यजाञ्चायुक्त-निदेशालयस्य दलस्य कार्याणां प्रशंसां कुर्वन् सः अवदत् यत्—अयं प्रयासः दस्तावेजीकरणस्य, प्रशिक्षणस्य, क्षमतानिर्माणस्य च दिशि अतीव उपयोगी अस्ति, तथा च आगामि-प्रशासनिक-पीढ्यै मार्गदर्शकः सिद्धो भविष्यति।
कार्यक्रमस्य अन्ते सामान्यप्रशासनविभागस्य सचिवः मोहम्मद-सोहेलमहोदयः धन्यवादज्ञापनम् अकरोत्। तेन पुस्तकप्रकाशनं प्रशासनिकक्षमतावर्धनस्य क्षेत्रे एकं महत्त्वपूर्णं सोपानं प्रतिपादितम्।
अस्मिन् माङ्गलिके अवसरे आरक्षिमहानिदेशकः विनयकुमारः, विकासआयुक्तः मिहिरकुमारसिंहः, प्रधानमुख्यवनसंरक्षकः अरविन्दरसिंहः इत्यादयः राज्यस्य अनेके मूर्धन्याः अधिकारिणः समुपस्थिताः आसन्।
सक्षमाय, उत्तरदायित्वपूर्णाय, नियमानुकूलाय च प्रशासनाय अधिकारिणां प्राप्तं नवीनं ‘सखित्वम्’
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
