केन्द्रसर्वकारेण लोखण्डेप्रशान्तसीतारामः सीबीएसई (CBSE) संस्थायाः अध्यक्षपदे नियुक्तः
भारतीयप्रशासनिकसेवाश्रेण्याः (IAS) वरिष्ठः अधिकारी लोखण्डेप्रशान्तसीतारामः केन्द्रीयमाध्यमिकशिक्षाबोर्ड (CBSE) इत्यस्य नूतनः अध्यक्षः नियुक्तः अस्ति। श्रीसीतारामः अस्मात् पूर्वं गृहमन्त्रालये अपरसचिवरूपेण कार्यरतः आसीत्। सः श्रीराहुलसिंहस्य स्थानं स्वीकृतवान्, यस्य स्थानान्तरणम् कृषि-कृषककल्याणविभागे अपरसचिवपदे कृतम् अस्ति।सर्वकारेण श्रीवरुणभारद्वाजः सीबीएसई (CBSE) संस्थायाः सचिवपदे नियुक्तः। सः इतः पूर्वं उच्चतरशिक्षाविभागे निदेशकरूपेण कार्यं करोति स्म। सः श्रीहिमांशुगुप्तस्य स्थानं गृहीतवान्। मन्त्रिमण्डलस्य नियुक्तिसमित्या एतासां नियुक्तीनां स्वीकृतिः दत्ता अस्ति।
केन्द्रसर्वकारेण लोखण्डेप्रशान्तसीतारामः सीबीएसई (CBSE) संस्थायाः अध्यक्षपदे नियुक्तः
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
