इक्षुकृषकाणां समस्यासमाधाने सर्वकारः प्रतिबद्धः : विजयकुमारसिंहः
पाटलिपुत्रम्, २ जूनमासः
(ज्येष्ठकृष्णद्वितीया, २०८३ विक्रमीयः)।
प्रेषकः राघव नाथ झा
बिहार-शर्कराशाला-सङ्घस्य (BSMA) एकं प्रतिनिधिमण्डलम् उपमुख्यमन्त्रिणं कृषिमन्त्रिणं च विजयकुमारसिंहमहोदयम् उपगम्य राज्यस्य इक्षुकृषकाणां विविधसमस्याभिः सम्बद्धं ज्ञापनपत्रं समर्पितवत्। प्रतिनिधिमण्डलस्य नेतृत्वं संस्थायाः सचिवः नरेशभट्टः अकरोत्।
ज्ञापनपत्रे निवेदितं यत् बिहारराज्यस्य दशसु कार्यरतासु शर्कराशालासु प्रायः द्विलक्षपञ्चाशत्सहस्राः (2,50,000) कृषकाः आश्रिताः सन्ति, प्रायः सार्धद्विलक्षहेक्टेयर् (सार्धद्विलक्ष-शतमान-परिमित-भूभागः अथवा सार्धद्विलक्ष-‘हेक्टेयर’) क्षेत्रे इक्षुकृषिः क्रियते। सम्प्रति इक्षोः वर्धनावस्थायां ‘यूरिया’-(सस्योपकारक)-उर्वरकस्य आवश्यकता अधिका वर्तते, किन्तु अनेकेषु क्षेत्रेषु तस्य उपलब्धौ कृषकाः काठिन्यम् अनुभवन्ति। अपरञ्च, क्षेत्रेषु जलप्रवाहस्य (जलावरोधस्य) समस्यया अपि कृषिः प्रभाविता अभवत्।
विषयस्य गाम्भीर्यं विचार्य कृषिमन्त्री विजयकुमारसिंहः अवदत् यत् राज्ये उर्वरकाणां कापि न्यूनता नास्ति। तेन कृषि विभागस्य प्रधानसचिवः कृषिनिदेशकश्च निर्देशितौ यत् इक्षुकृषकाणां तथा शर्कराशाला-क्षेत्राणां कृते ‘यूरिया’-उर्वरकस्य पर्याप्तोपलब्धिः प्राथमिकतया सुनिश्चितीक्रियताम्, येन कृषकाः कस्यापि प्रकारस्य कष्टं न प्राप्नुयुः।
मन्त्रिणा कृषकाः मृत्तिकापरीक्षणस्य आधारेण सन्तुलित-उर्वरकप्रयोगं कर्तुं तथा जैविक-प्राकृतिक-खादानां उपयोगं वर्धयितुं प्रेरिताः। तेन उक्तं यत् रासायनिक-उर्वरकेषु अतिनिर्भरता न्यूनीकर्तव्या, प्राकृतिककृषेः दिशि गमनमेव समयस्य आवश्यकता वर्तते।
जलावरोधस्य (जलजमाव इति) समस्याविषये सः अवदत् यत् लघुजलसंसाधनविभागेन सह समन्वयं स्थापयित्वा जलनिर्गमस्य प्रभावी व्यवस्था कारयिष्यते। अस्य कृते कृषि-, लघुजलसंसाधन- तथा सहकारिता-विभागानां अधिकारिणां संयुक्तोपवेशनं (बैठक) शीघ्रमेव आहूय स्थायिसमाधानस्य उपायाः सुनिश्चिताः भविष्यन्ति।
विजयकुमारसिंहः उक्तवान्—
”कृषकाणां समस्यासमाधानम् अस्माकं सर्वोच्चप्राथमिकता अस्ति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः तथा मुख्यमन्त्रिणः सम्राट्-चौधरीमहोदयस्य च नेतृत्वे सर्वकारः कृषकहितसंरक्षणाय पूर्णतया प्रतिबद्धः अस्ति। कृषकाः कस्यापि स्तरे पीडिताः न भविष्यन्ति, यूरिया-उपलब्धता तथा जलावरोधादि-समस्याः समयबद्धरूपेण समाधास्यन्ते।”
प्रतिनिधिमण्डलेन कृषकहितसम्बद्धविषयेषु शीघ्रसंज्ञानग्रहणाय तथा सकारात्मकप्रयासाय कृषिमन्त्रिणं प्रति कृतज्ञता प्रकटीकृता।
