तर्कसंग्रहकार-अन्नमभट्ट-स्मृतौ चतुश्चत्वारिंशत्तमः संस्कृत-शिक्षण-सम्भाषण-शिविरः सम्पन्नः
हिमसंस्कृतवार्ता (राघव नाथ झा) विहार संस्कृत संजीवन समाज-संस्थया “आधुनिको भव, संस्कृतं वद” इत्यभियानस्य अन्तर्गतं तर्कसंग्रहकार-अन्नमभट्ट-स्मृत्यन्तर्जालीय-अन्तर्राष्ट्रीय-संस्कृत-शिक्षण-सम्भाषण-शिविरस्य भव्यः समापन-समारोपः संस्कृतमये वातावरणे सम्पन्नः। अयं निरन्तरम् आयोजितः चतुश्चत्वारिंशत्तमः संस्कृत-शिक्षण-सम्भाषण-शिविरः आसीत्, यस्मिन् देश-विदेशस्थितानां विश्वविद्यालय-महाविद्यालय-विद्यालयानां कुलपतयः, प्राचार्याः, आचार्याः, छात्राः, प्रतिभागिनश्च समुपस्थिताः अभवन्।कार्यक्रमम् उद्दिश्य अभियानस्य राष्ट्रीयाध्यक्षः तथा विहार संस्कृत संजीवन समाज-महामन्त्री डॉ मुकेश कुमार ओझा अवदत् यत् संस्कृतभाषायाः ग्रामे ग्रामे, गेहे गेहे, जनमानसे च प्रसारेणैव तर्कसंग्रहकारस्य अन्नमभट्टस्य प्रति यथार्था श्रद्धाञ्जलिः समर्पयितुं शक्यते। तेन संस्कृतभाषा भारतीयसंस्कृतेः प्राचीना ज्ञानपरम्परायाश्च मूलाधारभूता इति प्रतिपाद्य सर्वेषां भारतीयानां संस्कृतसंवर्धने सहयोगस्य आवाहनं विहितम्।कार्यक्रमस्य विधिवदुद्घाटनं कुर्वन् अभियानस्य प्रधानसंरक्षकः पूर्वगृहसचिवश्च डॉ अनिल कुमार सिंह अन्नमभट्टस्य दार्शनिक-वैदुष्यस्य विशदं विवेचनं कृत्वा प्रोक्तवान् यत् न्याय-वैशेषिक-दर्शनयोः सुगमावगमनाय तर्कसंग्रह-ग्रन्थस्य अध्ययनम् अनिवार्यमस्ति।पूर्वभारतीयप्रशासनिकसेवाधिकारी उत्तरप्रदेशीयः अमरनाथ उपाध्याय अपि अवदत् यत् संस्कृत-शिक्षण-सम्भाषण-शिविरेषु सहभागिता भारतीयसंस्कृतेः तत्त्वबोधाय परमावश्यकी वर्तते। संस्कृतभाषायाः ज्ञानेनैव भारतीयसंस्कृतेः सम्यगवगमनं सम्भवति।
अभियानस्य राष्ट्रीयसंयोजिका प्रो रागिनी वर्मा मुख्यवक्तृरूपेण तर्कसंग्रहस्य दार्शनिकमहत्त्वं विस्तरेण निरूपितवती। अस्मिन्नवसरे अभियानस्य राष्ट्रीयोपाध्यक्षा डॉ लीना चौहान, संरक्षकः डॉ अनिल कुमार चौबे, जगत नारायण लाल महाविद्यालय-संस्कृतविभागाध्यक्षी डॉ अवंतिका कुमारी, एम एल टी महाविद्यालय-संस्कृतविभागाध्यक्षी डॉ दीप्ति कुमारी, महंथ केशव संस्कृत महाविद्यालय-संस्कृतसहायकाचार्या डॉ नीरा कुमारी, देवेश प्रकाश, तारा विश्वकर्मा, बीजेन्द्र सिंह, डॉ विश्वजीत रुद्रपाल, डॉ डिम्पल, दयानी शारदेय, अदिति चोला तथा वन्दना पटेरिया इत्यादयः विद्वांसः संस्कृतभाषायाः प्रचार-प्रसारयोः विशेषं बलम् अददुः।
अस्मिन्नेवावसरे “अन्नमभट्ट-स्मृति-संस्कृत-सम्भाषण-प्रतियोगिता” अपि समायोजिता, यस्यां डॉ दीप्ति कुमारी तथा देवेश प्रकाश प्रथमपुरस्कारं प्राप्तवन्तौ। डॉ विश्वजीत रुद्रपाल तथा तारा विश्वकर्मा द्वितीयपुरस्कारेण, वन्दना पटेरिया तथा अदिति चोला तृतीयपुरस्कारेण च सम्मानितौ। तथा बीजेन्द्र सिंह, दयानी शारदेय एवं डॉ डिम्पल विशेषपुरस्कारैः समलङ्कृताः।
आगत-अतिथीनां स्वागतं प्रो रागिनी वर्मा विधिवदकरोत्, धन्यवादप्रस्तावं डॉ लीना चौहान प्रस्तुतवती, ऐक्यमन्त्रपाठं च अदिति चोला सम्पन्नवती।
तर्कसंग्रहकार-अन्नमभट्ट-स्मृतौ चतुश्चत्वारिंशत्तमः संस्कृत-शिक्षण-सम्भाषण-शिविरः सम्पन्नः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
