उपमुख्यमन्त्रिणा विजयकुमारचौधरिणा पञ्चदशाभ्यर्थिभ्यः नियुक्तिपत्राणि प्रदत्तानि
निष्ठया समर्पणभावेन च स्वकर्तव्यपालनं कुर्वन्तु” — उपमुख्यमन्त्री
हिमसंस्कृतवार्ता (राघव नाथ झा)सिञ्चनभवने स्थिते जलसंसाधनविभागस्य सभागारे अद्य आयोजिते नियुक्तिपत्रवितरणसमारोहे उपमुख्यमन्त्री (जलसंसाधनविभागः) श्रीविजयकुमारचौधरी-महोदयेन पञ्चदशाभ्यर्थिभ्यः नियुक्तिपत्राणि प्रदत्तानि। एतेषु षट् नवनियुक्ताः सहायक-अभियन्तारः, अनुकम्पाधारेण नियुक्ताः षट् निम्नवर्गीय-लिपिकाः तथा त्रयः कार्यालय-परिचारकाः सन्ति।
कार्यक्रमस्य शुभारम्भः उपमुख्यमन्त्रिणा, विभागस्य सचिवेन डॉ. चन्द्रशेखरसिंह-महोदयेन अन्यैश्च वरिष्ठाधिकारिभिः दीपप्रज्वलनेन कृतः। अस्मिन् अवसरे अभियन्ताप्रमुखः श्रीवरुणकुमारः उपस्थितानाम् अधिकारिणां नवनियुक्तानां च हार्दिकं स्वागतं कृतवान्।
स्वसम्बोधने उपमुख्यमन्त्री सर्वेषां नवनियुक्तानां सहायक-अभियन्तॄणां कर्मिणां च हार्दिकं अभिनन्दनं शुभाशंसाश्च प्रदाय उक्तवान् यत्— “अद्यप्रभृति यूयं सर्वे जलसंसाधनविभागपरिवारस्य अभिन्नाङ्गानि जातानि। अयं विभागः मुख्यतया ग्रामीणक्षेत्रेषु कार्यं करोति तथा कृषकेभ्यः सामान्यजनाय च सिञ्चन-बाढसुरक्षादि-महत्त्वपूर्णसेवाः प्रददाति। अतः अपेक्ष्यते यत् यूयं सर्वे पूर्णया ईमानदारितया, निष्ठया समर्पणभावेन च स्वकर्तव्यपालनं करिष्यथ।”तेन उक्तं यत् क्षेत्रेषु कार्यरत-अधिकारिणां कर्मिणां च सक्रियता कार्यकुशलता च विभागस्य छविं सुदृढां करोति। नवनियुक्तेभ्यः सहायक-अभियन्तृभ्यः विशेषतया निर्देशः दत्तः यत् ते नियमितरूपेण कार्यस्थलानां निरीक्षणं कुर्वन्तु तथा योजनानां प्रभावीक्रियान्वयने सक्रियां भूमिकां निर्वहन्तु।अनुकम्पाधारेण नियुक्तान् कर्मकरान् सम्बोध्य उपमुख्यमन्त्री उक्तवान् यत् सेवाकाले कस्यचित् कर्मिणः निधनानन्तरं तस्य आश्रितेभ्यः शीघ्रं नियुक्तिप्रदानं विभागस्य संवेदनशीलतायाः परिचायकम् अस्ति। एतस्याः प्रक्रियायाः शीघ्रसम्पादनाय क्षेत्रीय-प्रधानकार्यालययोः अधिकारिणां प्रशंसा अपि तेन कृता।समारोहे विभागस्य सचिवः डॉ. चन्द्रशेखरसिंह-महोदयः अपि सर्वेभ्यः नवनियुक्तेभ्यः सहायक-अभियन्तृभ्यः कर्मिभ्यश्च अभिनन्दनं शुभकामनाश्च प्रदत्तवान्। तेन उक्तं यत्— “युष्माकं प्रति उत्कृष्टकार्यस्य अपेक्षा अस्ति, स्वकर्तव्यपालने विभागतः पूर्णसहयोगः प्रदास्यते।”अस्मिन् अवसरे अभियन्ताप्रमुखः ब्रजेशमोहनः, तकनीकी-परामर्शी मनोजरमणः, संयुक्तसचिवः अजयकुमारः सहिताः अन्येऽपि पदाधिकारी उपस्थिताः आसन्।
उपमुख्यमन्त्रिणा विजयकुमारचौधरिणा पञ्चदशाभ्यर्थिभ्यः नियुक्तिपत्राणि प्रदत्तानि
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
