HP CABINET MEETING – सीबीएसई-विद्यालयेषु शिक्षकाणां नूतनपदानां पूरणसहितं एतेषु निर्णयेषु भवितुं शक्नोति अनुमोदनम्
हिमसंस्कृतवार्ता: – शिमला। मुख्यमन्त्रिणः सुखविन्दरसिंहसुक्खुमहोदयस्य अध्यक्षतायां शुक्रवासरे राज्यमन्त्रिमण्डलस्य (Cabinet) उपवेशनं भविष्यति। अस्मिन् उपवेशने सीबीएसई-विद्यालयेषु शिक्षकाणां १५०० नूतनपदानां पूरणस्य निर्णयः भवितुं शक्नोति। उद्यानपालनविभागे (Horticulture Department) विविधश्रेणीनां ३० पदानां पूरणस्यापि स्वीकृतिः मिलितुं शक्नोति। उपवेशने वाहनपञ्जीकरणशुल्कस्य (Vehicle registration fee) वर्धनस्य प्रस्तावः अपि आनीयते। पञ्जीकरणस्य न्यूनातिन्यूनं दरं ८ प्रतिशततः (वाहनमूल्यस्य ८%) वर्धयित्वा १० प्रतिशतं कर्तुं प्रस्तावः अस्ति।
उपवेशने ‘स्टेट बिल्डिङ्ग् कोड’ (State Building Code) प्रवर्त्तनविषये अपि चर्चा भविष्यति। सर्वकारः ‘नेशनल बिल्डिङ्ग् कोड’ इत्यस्य स्थाने राज्यस्य भौगोलिकपरिस्थितीनां अनुकूलं स्वकीयम् पृथक् नियमसंहितां (कोड) सज्जं कर्तुम् इच्छति। १३.७९ किलोमीटर दैर्घ्ययुक्तस्य ‘तारादेवी-शिमला रज्जुमार्ग (रोपवे) परियोजनायाः’ उपरि अपि विमर्श: भविष्यति। एतां परियोजनां प्रारब्धुं सर्वकारः ऋणस्वीकृतेः विषयं निश्चेष्यति। एषा परियोजना शिमला-नगरस्य प्रमुखाणि स्थानानि योजयित्वा यातायातस्य प्रभावं (Traffic congestion) न्यूनीकर्तुं सहायिका भविष्यति। उपवेशने पेट्रोल-डीजल-इन्धनयोः उपभोगं न्यूनीकर्तुं काँश्चित् निर्णयात्मकपदक्षेपान् स्वीकर्तुम् अपि सम्भावना वर्तते।
HP CABINET MEETING – सीबीएसई-विद्यालयेषु शिक्षकाणां नूतनपदानां पूरणसहितं एतेषु निर्णयेषु भवितुं शक्नोति अनुमोदनम्
Himsanskritvarta: It is a non-profit project to promote Sanskrit journalism, whose aim is to make available material for reading Sanskrit news in educational institutions. Many Sanskrit teachers and Sanskrit lovers are contributing in this work. If you also want to cooperate in this work, then write Namaste on our WhatsApp number 7876636263.
Leave a comment
