भारतस्य प्रथमा तीव्रगामी-रेलयानम् (बुलेट ट्रेन) चित्रम्: रेलमन्त्रालयेन द्वारे स्थापितम्; अस्मिन् वर्षे गुर्जराते सूरत-बिलिमोरा नगरयोः मध्ये प्रचलनाशा।
भारतस्य प्रथम-तीव्रगामी-रेलयानस्य (बुलेट ट्रेन) प्रथमा झलकः सोमे वासरे सम्मुखीभूता। दिल्ल्यां रेलमन्त्रालयस्य चतुर्थसङ्ख्याके (4) द्वारे मुम्बई-अहमदाबाद ‘हाई स्पीड रेल’ (MAHSR) इत्यस्य चित्रं प्रस्थापितम् अस्ति।
रेलमन्त्रालयेन विश्वासः प्रकटितः यत् अस्मिन्नेव वर्षे गुजरातराज्यस्य सूरत-बिलिमोरा नगरयोः मध्ये (प्रायः ५० कि.मी.) देशस्य प्रथमा बुलेट-ट्रेन प्रचालयितुं शक्यते।
ए.एन.आई. (ANI) अनुसारम्, ५०८ (508) किलोमीटर दीर्घः मुम्बई-अहमदाबाद ‘हाई स्पीड रेल’ प्रकल्पः जापान-सर्वकारस्य तकनीकी-वित्तीय-साहाय्येन निर्मितः भवति। अयं प्रकल्पः गुजरात, महाराष्ट्र तथा दादरा एवं नगर हवेली क्षेत्रेभ्यः गमिष्यति।
अस्मिन् मुम्बई, ठाणे, विरार, बोइसर, वापी, बिलिमोरा, सूरत, भरूच, वडोदरा, आनन्द, अहमदाबाद तथा साबरमती इत्येतान् सम्मिश्र्य द्वादश (12) रेलस्थानकानि (स्टेशन्स्) निर्मीयन्ते।
बुलेट-ट्रेन प्रकल्पस्य १२ मध्ये ८ स्थानकानां कार्यं पूर्णम् रेलमन्त्रालयेन ज्ञापितं यत् कल्पे अन्तर्भूतानां द्वादशसु (12) मध्ये अष्टानां (8) स्थानकानां आधारशिलाकार्यं (नींव) पूर्णं जातम्। एतेषु वापी, बिलिमोरा, सूरत, भरूच, आनन्द, वडोदरा, अहमदाबाद तथा साबरमती नगराणि सम्मिलितानि सन्ति। सप्तदश (17) नदी-सेतवः पूर्णाः अभवन्, यदा तु नर्मदा, माही, तापी तथा साबरमती सदृशीनां चतुसृणां (4) महतीनां नदीनां उपरि सेतुकर्म तीव्रगत्या चलति।
महाराष्ट्रराज्ये अपि चतुर्णां (4) नदी-सेतूनां निर्माणकार्यं प्रचलति। रेल-पदमण्डलस्य (डिपो) कार्यस्य विषये उच्यते चेत्, ठाणे, सूरत तथा साबरमती नगरेषु डिपो-निर्माणं तीव्रगत्या क्रियते। मुम्बई नगरस्य बांद्रा कुर्ला कॉम्प्लेक्स (BKC) क्षेत्रे नागरिककार्यं (सिविल वर्क) सम्यक् चलति। अत्र खननस्य ९१% (91%) कार्यं सम्पन्नं जातम्, तथा च आधारभूत-शिलायाः (बेसमेंट स्लैब) कार्यं चतुर्थस्तरं (Level-4) यावत् १००% (100%) पूर्णम् अभवत्।
रेलमार्गे समुद्रान्तर्गत-गुहामार्गः (अण्डर-सी टनल) अपि अस्य प्रकल्पस्य एकः मुख्यः भागः समुद्रान्तर्गत-सुरङ्गा अपि अस्ति। प्रायः २१ (21) किलोमीटर दीर्घायाः अस्य गुहामार्गस्य कार्यं आरब्धम् अस्ति। एतेषु महाराष्ट्रस्य घनसोली-शिलफाटा नगरयोः मध्ये ४.८ (4.8) किलोमीटर परिमिता सुरङ्गा पूर्णा अभवत्।
अस्मिन् १६ (16) किलोमीटर गुहामार्गः’टनल बोरिंग’ यन्त्रैः तथा अवशिष्टा ५ (5) किलोमीटर गुहामार्गः ‘न्यू ऑस्ट्रियन टनलिंग’ पद्धत्या निर्मीयते। अत्र ठाणे क्रीक (खाड़ी) इत्यस्य अधः ७ (7) किलोमीटर दीर्घा सामुद्रिकी गुहामार्गः अपि अन्तर्भवति।
मन्त्रालयस्यानुसारम् अनेन कल्पेन देशे तीव्रगामी-रेलयानार्थं (हाई स्पीड रेल) नवीना तकनीकी अनुभवः च विकसितः भविष्यति। अस्मिन् मार्गनिर्माणं (ट्रेक निर्माण), प्रगत-सङ्केतनं (एडवांस सिग्नलिंग), याननिर्माणं तथा संरक्षणं (मेंटेनेंस) सदृशाः क्षमताः समाविष्टाः सन्ति। एतेन भविष्ये एतादृशानां अन्येषां गलियाराणां (कॉरिडोर) निर्माणे साहाय्यं मिलिष्यति।
(साभारम्- दैनिकभास्करः)
भारतस्य प्रथमा तीव्रगामी-रेलयानम् (बुलेट ट्रेन) चित्रम्: रेलमन्त्रालयेन द्वारे स्थापितम्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
