केन्द्रीयस्वास्थ्यमन्त्री जे.पी.नड्डः जिनेवानगरे विश्वस्वास्थ्यसङ्गठनस्य महानिदेशकेन डॉ. टेड्रोस महोदयेन सह अमिलत्
केन्द्रीयस्वास्थ्य-एवं-परिवारकल्याणमन्त्री जगत्प्रकाशनड्डः स्विट्जरलैण्डदेशस्य जिनेवानगरे आयोजितायाः एकोनाशीतितमायाः (79th) विश्वस्वास्थ्यसभयाः अवसरे विश्वस्वास्थ्यसङ्गठनस्य महानिदेशकं डॉ. टेड्रोस अधानोम घेब्रेयसस महोदयं अमिलत्। स्वास्थ्यमन्त्रालयेन सामाजिकमाध्यमे एकेन सन्देशेन ज्ञापितं यत् श्रीनड्डः वैश्विकस्वास्थ्यसमतां प्रवर्धयितुं भारतस्य प्रतिबद्धतां पुनरुक्तवान् तथा च आयुष्मान् भारत डिजिटल मिशन, आयुष्मान् आरोग्य मन्दिरं, पारम्परिकचिकित्सा, एआई-(आर्टिफिसियल इन्टेलिजेंस)-आधारित-जनस्वास्थ्यनवोन्मेषाः, यक्ष्मा-(टीबी)-उन्मूलनदिशि निरन्तरप्रयासाः इत्यादीन् प्रमुखानं कार्यक्रमान् प्रकटीकृतवान्। मन्त्री ‘विश्वस्य औषधालयः’ (फार्मेसी) इति रूपेण देशस्य भूमिकायाः उपरि अपि बलं दत्तवान्।
उपवेशनस्य समये, विश्वस्वास्थ्यसङ्गठनस्य (डब्ल्यूएचओ) महानिदेशकः भारतस्य स्वास्थ्यक्षेत्रे परिष्काराणां वैश्विकस्वास्थ्यसहभागितासु च नेतृत्वस्य प्रशंसां कृतवान्, तथा च सार्वजनिकतथ्यानां प्राथमिकतानां च आधारेण विश्वस्वास्थ्यसङ्गठनेन सह सहयोगं सुदृढं कर्तुं प्रतिबद्धतां प्रकटितवान्। श्रीनड्डः एकोनाशीतितमायां विश्वस्वास्थ्यसभायां भागं ग्रहीतुं ह्यः रात्रौ स्विट्जरलैण्डदेशं प्राप्नोत्। स्वास्थ्यसभयाः समापनं शनिवारे भविष्यति।
केन्द्रीयस्वास्थ्यमन्त्री जे.पी.नड्डः जिनेवानगरे विश्वस्वास्थ्यसङ्गठनस्य महानिदेशकेन डॉ. टेड्रोस महोदयेन सह अमिलत्
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
