भारतस्य नवीकरणीय-ऊर्जा-क्षमतायां विश्वे तीव्रतमा वृद्धिः अङ्किता: केन्द्रीयमन्त्री प्रह्लाद जोशी
नवीन-एवं-नवीकरणीय-ऊर्जा-मन्त्री प्रह्लाद जोशी उक्तवान् अस्ति यत् भारतेन एकस्मिन् वर्षे नवीकरणीय-ऊर्जा-क्षमतायां विश्वस्य तीव्रतमा वृद्धिः अङ्किता। अद्य नवदिल्ल्यां भारतीय-उद्योग-परिसङ्घस्य (CII) वार्षिक-व्यापार-शिखरसम्मेलने सः एतां वार्तां कथितवान्। ऊर्जाक्षेत्रे देशस्य प्रगतिविषये श्रीजोशी महोदयः अवदत् यत् वर्तमानासु वैश्विक-अनिश्चिततासु अपि भारतं सुदृढस्थितौ वर्तते।
