राष्ट्रिय-शिक्षा-नीत्याः अन्तर्गतं कौशल-शिक्षायाः ऋण-प्रणाल्याः च सुदृढीकरणस्य आवश्यकता: शिक्षामन्त्री धर्मेन्द्र प्रधानः
शिक्षामन्त्री धर्मेन्द्र प्रधानः कौशल-आधारितां शिक्षाप्रणालीम् आवश्यकीं कथयन् राष्ट्रिय-शिक्षा-नीत्याः अन्तर्गतं सुदृढां ऋण-प्रणालीं (Credit System) विकसितुं बलं दत्तवान् अस्ति। नवदिल्ल्यां अद्य भारतीय-उद्योग-परिसङ्घस्य (CII) वार्षिक-व्यापार-शिखरसम्मेलने सः उक्तवान् यत् छात्रेभ्यः अधिकां सहायताम् अवसरान् च प्रदातुम् ‘इन्टर्नशिप’ तथा ‘अप्रेंटिसशिप’ इत्येतदपि ऋण-तन्त्रे सम्मिलितं करणीयम्।
केन्द्रीयमन्त्रिणा भारतस्य शिक्षाप्रणाली विश्वस्य सुदृढतमा शिक्षाप्रणाली इति प्रोक्ता। सः अवदत् यत् देशे १० लक्षं राजकीयविद्यालयान् सहितं प्रायः १५ लक्षं विद्यालयाः सन्ति। केन्द्र-राज्यसर्वकाराः मिलित्वा शिक्षायाम् देशस्य सकल-घरेलु-उत्पादस्य (GDP) प्रायः चतुः प्रतिशतं व्ययं कुर्वन्ति।
राष्ट्रिय-शिक्षा-नीत्याः अन्तर्गतं कौशल-शिक्षायाः सुदृढीकरणस्य आवश्यकता: शिक्षामन्त्री धर्मेन्द्र प्रधानः
Himsanskritam is a non-profit trust (Reg. No. 86/2026) dedicated to promoting Sanskrit journalism, local dialects, and the rich culture and folklore of Himachal Pradesh. Many Sanskrit educators and cultural enthusiasts actively contribute to this mission. If you would like to support our initiative and become a member, send "Namaste" to our WhatsApp number: 7876636263.
Leave a comment
